इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः
व्यास उवाच- तारेयो बलसंपन्नः शक्रतुल्यपराक्रमः। जघान विशिखैस्स्कन्दं पितृघातिनमाहवे
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः। विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः
स दैत्यस्सहसा स्कंदं छादयामास मार्गणैः। असंभ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा
तारेयोग्निशरैः स्कंदं जघान रणमूर्धनि। विशिखं भिदुरप्रख्यं चखान हरनंदने
वैश्वानरेण सेनानीस्तत्र संपर्यवारयत्। रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च। अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः। धावंति पार्वतीपुत्रं कोटिकोटिसहस्रशः
छित्वा तांस्तुशरान्स्कंदो बिभेद दैत्यपुंगवं। आपादं शीर्षपर्यंतं शरैरग्न्यर्कसन्निभैः
स्वर्णपुंखाः शरा लग्ना देहे दैत्यपतेर्भृशं। रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं। यथा च माधवे मासि पुरुपुष्पश्शमी तरुः
स्यंदनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः। अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं। पार्वतीनंदनेनापि शूलं पाशुपतेन ह
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे। पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः
शूलं प्रतिजघानाथ शतकूटसमप्रभम्। ततोऽस्त्रे वज्रसंकाशे जघटाते वियत्यपि
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः। ततो दैत्यपतिः स्कंदं शरैरग्निशिखोपमैः
अर्दयामास सहसा घनधारेव पर्वतं। तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै
विचकर्तार्धचंद्रेण तथा यंतुः शिरोमहत्। तथाश्वान्बहुभिर्बाणैः पातयामास भूतले
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं। जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं
ततो मोहं गतो बर्ही प्रचकंपे मुहुर्मुहुः। ततः स्कंदः पुनस्तं च जघानासुरपुंगवं
प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं। तारेयः शक्तिमादाय जघान क्रौंचदारणम्
सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्। ततः संदह्य सा शक्तिर्विश्वप्रलयकारिणी
यमदंडसमानं च भित्वा पुनर्गुहं गता। स गतासुः पपातोर्व्यां चालयंश्च वसुंधरां
पुष्पधूपादिभिः स्कंदः सर्वदेवैः प्रपूजितः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तारेयवधोनामैकोनसप्ततितमोऽध्यायः
व्यास उवाच- ततो देवांतको दैत्यो व्यनदत्समरं प्रति। रणं चकार धर्मेण संदष्टौष्ठपुटो बली
स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं। न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्
पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः। अहं च निर्मितो धात्रा करोमि तव शासनम्
न जानासि यतो धर्मं कालमृत्यु पुरःसरः। न रोगो न जरा कालो न मृत्युर्न च किंकरः
धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्। उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्