इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः
व्यास उवाच- बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्। मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्। तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्। वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि। एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः। ततो जघान दशभिरिंद्रमैरावणं त्रिभिः
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह। शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात्
आयसीं तां गदां कोपान्महाबलपराक्रमः। ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि
भिदुरस्यावपातेन गतासुर्निपपात ह। दनुजस्य प्रपातेन संचचाल वसुंधरा
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः
व्यास उवाच- तारेयो बलसंपन्नः शक्रतुल्यपराक्रमः। जघान विशिखैस्स्कन्दं पितृघातिनमाहवे
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः। विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः
स दैत्यस्सहसा स्कंदं छादयामास मार्गणैः। असंभ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा
तारेयोग्निशरैः स्कंदं जघान रणमूर्धनि। विशिखं भिदुरप्रख्यं चखान हरनंदने
वैश्वानरेण सेनानीस्तत्र संपर्यवारयत्। रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च। अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः। धावंति पार्वतीपुत्रं कोटिकोटिसहस्रशः
छित्वा तांस्तुशरान्स्कंदो बिभेद दैत्यपुंगवं। आपादं शीर्षपर्यंतं शरैरग्न्यर्कसन्निभैः
स्वर्णपुंखाः शरा लग्ना देहे दैत्यपतेर्भृशं। रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं। यथा च माधवे मासि पुरुपुष्पश्शमी तरुः
स्यंदनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः। अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं। पार्वतीनंदनेनापि शूलं पाशुपतेन ह
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे। पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः
शूलं प्रतिजघानाथ शतकूटसमप्रभम्। ततोऽस्त्रे वज्रसंकाशे जघटाते वियत्यपि
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः। ततो दैत्यपतिः स्कंदं शरैरग्निशिखोपमैः
अर्दयामास सहसा घनधारेव पर्वतं। तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै
विचकर्तार्धचंद्रेण तथा यंतुः शिरोमहत्। तथाश्वान्बहुभिर्बाणैः पातयामास भूतले
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं। जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं
ततो मोहं गतो बर्ही प्रचकंपे मुहुर्मुहुः। ततः स्कंदः पुनस्तं च जघानासुरपुंगवं