छिन्नधन्वा हतरथो हताश्वो हतसारथिः। निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः
अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा। गदामादाय सहसा स जघान महागजम्
यथा मेरुगिरेः शृंगे वज्रपातो भवेद्ध्रुवम्। तथैव च महाशब्दो ह्यभवल्लोमहर्षणः
प्रहारेणार्दितः पद्मी संचचाल स विह्वलः। रुधिरेणावसिक्तांगो विमुखो वेदनातुरः
शतक्रतुं विधावंति शतशोथ सहस्रशः। अर्धचंद्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः
जंतुभिस्तस्य मायाभिरर्दितास्सुरपुंगवाः। भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि
दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा। जंतुभूतान्स चक्रेण चिच्छेद देहलग्नकान्
ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले। पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः
दधार मुद्गरं घोरं शक्रं हंतुं समुद्यतः। ततो जघान मघवा कुलिशेन महासुरम्
स पपात महीपृष्ठे क्षतवक्षा महाबलः। साधुसाध्विति देवाश्च सिद्धाश्चैव महर्षयः५० 1.67.50 अपूजयंस्तदा शक्रं बहुभिः पुष्पवृष्टिभिः। ततो दैत्यगणाः सर्वे भीतास्तत्र प्रदुद्रुवुः। गीतं गायंति गंधर्वा ननृतुश्चाप्सरोगणाः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः
व्यास उवाच- बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्। मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्। तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्। वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि। एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः। ततो जघान दशभिरिंद्रमैरावणं त्रिभिः
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह। शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात्
आयसीं तां गदां कोपान्महाबलपराक्रमः। ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि
भिदुरस्यावपातेन गतासुर्निपपात ह। दनुजस्य प्रपातेन संचचाल वसुंधरा
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः
व्यास उवाच- तारेयो बलसंपन्नः शक्रतुल्यपराक्रमः। जघान विशिखैस्स्कन्दं पितृघातिनमाहवे
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः। विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः
स दैत्यस्सहसा स्कंदं छादयामास मार्गणैः। असंभ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा
तारेयोग्निशरैः स्कंदं जघान रणमूर्धनि। विशिखं भिदुरप्रख्यं चखान हरनंदने
वैश्वानरेण सेनानीस्तत्र संपर्यवारयत्। रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च। अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः। धावंति पार्वतीपुत्रं कोटिकोटिसहस्रशः
छित्वा तांस्तुशरान्स्कंदो बिभेद दैत्यपुंगवं। आपादं शीर्षपर्यंतं शरैरग्न्यर्कसन्निभैः
स्वर्णपुंखाः शरा लग्ना देहे दैत्यपतेर्भृशं। रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये