शस्त्रैः शरैरसृक्पातैः कंकवायसजंबुकैः। यथा मुसलधाराभिर्घना वर्षंति लोहितम्
तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः। केचित्पतंति मुह्यंति स्खलंति च हसंति च
मुंचंति चार्तनादांश्च सिंहनादं मुहुर्मुहुः। केषांचिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे
छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि। कोटिकोटिसहस्राणि गजवाज्यसुराणि च
अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि। ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः
विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः। तृणकाष्ठपरास्तत्र शक्तयो दारुसंचयाः
मुद्गरा मुसलाः शूला मकराद्या भवंति च। जयंतिका ध्वजा मीनाः कमठाश्चर्मकायकाः
शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा। केशचामरशैवालाः संपूर्णास्तास्ततःस्ततः
पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः। तदा वसुंधरा सर्वा सशैलवनकानना
रुधिरौघा महाघोरा सर्वलोकभयंकरा। स्कंदस्य शक्तिपातेन गता दैत्या यमक्षयम्
पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः। वरुणस्य च पाशेन बद्धा मग्ना यमक्षये
येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा। निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः
ग्रहैश्च श्वसनैरेव यक्षगंधर्वकिन्नरैः। महत्या गदया चैव कुबेरेण च धीमता
घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः। पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले
अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः। पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः
देहांस्त्यक्त्वा दिवं यांति केचिच्च यममंदिरम्। केचिद्गच्छंति पातालं पुण्यापुण्यप्रयोगतः
एतस्मिन्नंतरे वेदाञ्जजल्पुः परमर्षयः। स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु
प्रयुध्यमानेष्वन्येषु सांप्रतं सर्वजंतुषु। विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः
प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः। दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः
अर्दयामास देवांश्च संयम्याग्निसमैः शरैः। तस्य बाणार्दिता देवा बहवो बलदर्पिताः
पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे। दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्
शशंसुर्ऋषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः। अथ क्रुद्धो महातेजाश्शतक्रतुररिंदमः
जघान शरसंदोहैर्बलं बलवतां वरम्। सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससंभ्रमः
रुधिरेणावसिक्तांगौ प्रसृतेन महाबलौ। तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ
चक्राणि च सहस्राणि शूलानि मुसलानि च। निचखान रणे शक्रे चपले चासुरोत्तमः
तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः। सुरराट्सहसा भ्रांतो लीलया समरे बली
स च दैत्यो महातेजाः शक्त्या चैव पुरंदरम्। निजघान तदा तूर्णं गजस्थं च स्तनांतरे
तया विनिहतः शक्रः प्रचचाल गजोपरि। लब्धसंज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्
रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा। चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा
चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान्। शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्