अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च । पांडुरा पापदहनी पितापुत्रफलप्रदा
नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी । रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् । तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम्
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च । संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम्
नवमं च नवव्यूहं दशमं तु तदात्मकम् । एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम्
अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके । खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक्
इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत् । स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम्
तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम् । शालग्रामशिला यत्र तत्र संनिहितो हरिः
तत्र दानं जपः स्नानं वाराणस्याः शताधिकम् । कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा
तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् । ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः
तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम् । शालग्रामोद्भवो देवो यत्र द्वारावतीभवः
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः । ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः
भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा । तत्पूजनेन मंत्राश्च न जपो न च भावना
न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने । शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात्
कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम् । अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः
मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत् । यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते
कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः । अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे
तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम् । मंडलं कुरुते नित्यं या नारी केशवाग्रतः । सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः
ईश्वर उवाच। धात्रीच्छायां समाश्रित्य कुर्यात्पिंडं तु यो गुह । मुक्तिं प्रयांति पितरः प्रसादान्माधवस्य तु
मूर्ध्नि पाणौ मुखे चैव देहे चैव तु यो नरः । धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः
धात्रीफलकृताहारो नरो नारायणो भवेत् । यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह
प्रियो भवति देवानां मनुष्याणं च का कथा । न जह्यात्तुलसीमालां धात्रीमालां विशेषतः
यावत्तिष्ठति कंठस्था धात्रीमाला नरस्य हि । तावत्तस्य शरीरे तु प्रतिष्ठति च केशवः
धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा । सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि
यावद्दिनानि वहते धात्रीमालां कलौ नरः । तावद्युगसहस्राणि वैकुंठे वसतिर्भवेत्
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् । वहते कंठदेशे तु कल्पकोटिं दिवं वसेत्
संनियम्येंद्रियग्रामं शालग्रामशिलार्चनम् । यः कुर्यान्मानवो भक्त्या पुष्पेपुष्पेऽश्वमेधजम्
सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा । तुलस्यानुदिनं देवं योऽर्चयेद्गरुडध्वजम्
जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयात् । तुलसीमालया विष्णुः पूजितो येन कार्तिके