व्यास उवाच- एतच्छ्रुत्वा तु दैत्येंद्रो हिरण्याक्षो महाबलः। सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह
स्वयं गच्छामि युद्धाय देवानां विजिघांसया। नागच्छंति न युद्ध्यंते तेन मार्गाद्विशन्त्वितः
एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः। युद्धाय प्रययुः सर्वे शूलपाशातिपंडिताः
अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि। निरंतरं तथाकाशं प्रययुर्युद्धकांक्षिणः
ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा। स्कंदश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः
सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः। एतस्मिन्नंतरे युद्धं देवदानवयोरपि
न भूतं न श्रुतं पूर्वं सर्वलोकभयंकरम्। शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्
धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ। अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले
शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः। दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः
अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम्। अभवन्घोररूपाणि धराकाशे व्ययानि च
शस्त्रैः शरैरसृक्पातैः कंकवायसजंबुकैः। यथा मुसलधाराभिर्घना वर्षंति लोहितम्
तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः। केचित्पतंति मुह्यंति स्खलंति च हसंति च
मुंचंति चार्तनादांश्च सिंहनादं मुहुर्मुहुः। केषांचिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे
छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि। कोटिकोटिसहस्राणि गजवाज्यसुराणि च
अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि। ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः
विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः। तृणकाष्ठपरास्तत्र शक्तयो दारुसंचयाः
मुद्गरा मुसलाः शूला मकराद्या भवंति च। जयंतिका ध्वजा मीनाः कमठाश्चर्मकायकाः
शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा। केशचामरशैवालाः संपूर्णास्तास्ततःस्ततः
पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः। तदा वसुंधरा सर्वा सशैलवनकानना
रुधिरौघा महाघोरा सर्वलोकभयंकरा। स्कंदस्य शक्तिपातेन गता दैत्या यमक्षयम्
पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः। वरुणस्य च पाशेन बद्धा मग्ना यमक्षये
येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा। निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः
ग्रहैश्च श्वसनैरेव यक्षगंधर्वकिन्नरैः। महत्या गदया चैव कुबेरेण च धीमता
घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः। पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले
अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः। पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः
देहांस्त्यक्त्वा दिवं यांति केचिच्च यममंदिरम्। केचिद्गच्छंति पातालं पुण्यापुण्यप्रयोगतः
एतस्मिन्नंतरे वेदाञ्जजल्पुः परमर्षयः। स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु
प्रयुध्यमानेष्वन्येषु सांप्रतं सर्वजंतुषु। विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः
प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः। दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः
अर्दयामास देवांश्च संयम्याग्निसमैः शरैः। तस्य बाणार्दिता देवा बहवो बलदर्पिताः