त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पंचभिः। सप्तभिर्जठरे नाभौ बस्तौ तस्य स पंचभिः
शरैः संपातितो दैत्यो मुग्धः कश्मलतां गतः। शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली
मधुसंज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम्। चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः
ततो बाणसहस्रैस्तु कालांतकसमप्रभैः। बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली
हतचेताः स दैत्येंद्रो बहुशोणितसंस्रवः। विह्वलो बहुबाणार्तः शूलं जग्राह दानवः
शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः। हत्वा च पातयामास त्रिभिर्यंतारमेव च
जघान शूलमुर्वीष्ठस्ततो गंधर्वसत्तमम्। विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली
शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम्। गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली
स मुद्गरं समायातं दैत्यसेनाधिपं तदा। विचकर्त्त शिरो देहादर्धचंद्रेण संभ्रमात्
स पपात महीपृष्ठे संचचाल वसुंधरा। ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः
व्यास उवाच- भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः। चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकम्
दृष्ट्वासुरं विधावंतं कालमृत्युसमप्रभम्। अरौत्सीत्तं महावीर्यो जयंतः पाकशासनिः
अब्रवीच्च महातेजा दैतेयं सुरसत्तमः। तथ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवम्
शस्त्राभिघातदुःखार्तं कश्मलं चान्यसंयुतम्। प्रभग्नं च निरस्तं च यो हंति स च बालिशः
सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरम्। तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव
जयंतमब्रवीद्वाक्यं कालेयः क्रोधमूर्च्छितः। निहत्य भ्रातृहंतारमथ त्वांहन्मि सांप्रतम्
ततस्तं चासुरश्रेष्ठं कालानलसमप्रभम्। जयंतो निशितैर्बाणैर्जघान सुरसत्तमः
निचकर्त्त शरान्सोपि त्रिभिर्विव्याध चासुरः। यथावृष्टिगणं प्राप्य नदी गैरिकवाहिनी
तथा तौ च महावीर्यौ न क्षीणौ न च कातरौ। न शर्म परिलेभाते परस्परजयैषिणौ
अथ तस्य च दैत्यस्य धनुश्चिच्छेद चेषुणा। यंतारं पंचभिर्बाणैः पातयामास भूतले
अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपातयात्। शक्तिं संगृह्य भूमिष्ठः कुमारं च जघान ह
गदया पीडितं साश्वं सवरूथं सकूबरम्। पातयित्वा धरण्यां च सिंहनादं ननाद ह
लाघवात्स धरां गत्वा गदापाणिरुपस्थितः। वज्रपाताद्यथा शब्दो लोकानां दुःसहो भवेत्
तथा तयोर्गदापाते शब्दः स्यात्तु मुहुर्मुहुः। एवं तयोर्गदायुद्धं यावदब्दचतुष्टयम्
प्रभग्ने ते गदे खस्थौ खड्गचर्मधरावुभौ। तदा पदातिनोर्युद्धमद्भुतं लोमहर्षणं
दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः। खड्गपातैर्मुहूर्तांते तयोश्छिन्ने तु वर्मणी
अभवत्खड्गयुद्धं च तयोर्युद्धातिशीलिनोः। दधार चिकुरे तस्य जयंतो भीमविक्रमः
शिरश्छित्वास्य खड्गेन पातयामास भूतले। ततस्तु जयशब्देन देवाः सर्वे ननंदिरे
प्रभग्ना दैत्यसंघाश्च दिशः सर्वाः प्रदुद्रुवुः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालेयवधोनाम षट्षष्टितमोऽध्यायः