गामेव पतिता धीरा दिव्यालंकारभूषिताः। प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः। ततो वसुंधरा सर्वा सशैलवनकानना
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि। क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः। अन्यैर्महागणैरेव क्षतजं पवनान्वितम्
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा। एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः
मृतसंजीवनीविद्यां सुराणां संजजाप ह। विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां
ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः। औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा
तत्र देवाश्च जीवंति ये मृताश्च महाहवे। अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्। पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्
ततस्तु जयशब्देन नंदंति सिद्धचारणाः। ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः
गीतिं गायंति गंधर्वाः शशंसुः परमर्षयः। अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः
कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च। स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च
जघान सुरसंघांस्तान्नर्तयामास भूतले। निरंतरशरौघेण च्छादितं गगनं तदा१०० 1.65.
निपतंति शराः सैन्ये कोटिकोटि सहस्रशः। निपतंति ततो देवाः संयुगेष्वनिवर्तिनः
रुधिरोद्गारिणस्सर्वे सिद्धगंधर्वकिन्नराः। विशिखैः पीडिता देवा निपेतुर्धरणीतले
केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा। पेतुरुर्व्यां महावीर्या ये रणे सुरपुंगवाः
व्यथिताश्चाभवन्सर्वे स्यंदनस्था दिवौकसः। शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न संमुखे
तेनावगाहितं सैन्यं गजेनेव सरोवनम्। शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः
न शेकुः समरे स्थातुं मघवंतं ययुस्तदा। चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः
ययौ स्यंदनमारुह्य युद्धं प्रति धनुर्धरः। अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्
यथा हंसि महाशूर सुरसेनां मुदान्वितः। स त्वं प्रशंसनीयश्च शूरोसि सुरसंमतः
हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना। इदानीं मम बाणैश्च गच्छस्व यममंदिरम्
ततश्च कालकेयस्तु स्मितो वचनमब्रवीत्। पुरैव विजितो देव गणः सर्वः प्रलीलया
इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया। यदि ते निधने प्रीतिरस्तीह सुरपुंगव
एभिस्त्वां निशितैर्बाणैर्नयामि यममंदिरम्। इत्युक्त्वा परमक्रुद्धो बाणमंतकसन्निभम्
जघान समरे वीरस्त्रिभिश्चिच्छेद सोंबरे। पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा
जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात्। ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः
युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः। तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्
द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः। एवं शतसहस्राणि बाणानां विधृतानि च
अन्योन्यं समरे वीरौ विजयाय विरेजतुः। अथ क्रुद्धो महातेजा गंधर्वाणां पतिस्तदा