अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः। देवानां च विपत्तिं च कदनं निधनं पुरः
पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम्। एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्। दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः
बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः। कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च
एकैकस्य च वीरस्य वाहनानि महांति च। स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा। वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः। सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे
देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः। वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः। भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः। शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे
शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरंतरम्। विगृहेषु धरण्यां च पर्वतेषु जलेषु च
देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु। गह्वरेषु महारण्ये तयोर्युद्धमवर्तत
पुष्कलादि घनानां च वर्षधारा जलं यथा। पतंत्यस्त्राणि सैन्येषु शतशोथ सहस्रशः
केचित्पेतुः पृथिव्यां तु शरैः संभिन्नविग्रहाः। शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः
पतिताः संमुखे शूरा युद्धेषु न्यायवर्तिनः। गच्छंति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः
ये चान्ये कातराः पापा हंतारो विमुखान्रणे। अन्यायैर्ये च योद्धारस्ते यान्ति यममंदिरं
त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्। रथस्थांश्च रथारोहाः पदगांश्च पदातयः
परस्परं विनिघ्नंति शूरा युद्धाभिकांक्षिणः। मुदिताः सत्वसंपन्ना धर्मिष्ठा बलसंवृताः
केषांचिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः। केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले
मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः। खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः
गामेव पतिता धीरा दिव्यालंकारभूषिताः। प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः। ततो वसुंधरा सर्वा सशैलवनकानना
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि। क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः। अन्यैर्महागणैरेव क्षतजं पवनान्वितम्
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा। एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः
मृतसंजीवनीविद्यां सुराणां संजजाप ह। विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां
ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः। औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा
तत्र देवाश्च जीवंति ये मृताश्च महाहवे। अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्। पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्
ततस्तु जयशब्देन नंदंति सिद्धचारणाः। ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः