माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः। विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै। राजानं कथयामासुर्हिरण्याक्षं महाबलम्
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः। सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.
अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः। माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्
कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे। त्रिपुरारिरुवाचेदं गणेशं यजतामराः
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्। ततो देवगणैर्हृष्टैः पूजितो गणनायकः
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्। जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः
हरिं निवेदयामासुरस्मद्वधपरीप्सवः। हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः
युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि। यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्। जेष्यामि च हरिं राजन्सहायं मे नियोजय
जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्। तस्मान्नारायणोऽस्माकं भागः सर्वपुरंजयः
ततो धुंधुश्च सुंदश्च कालकेयो महाबलः। सहायश्च मधोस्तस्य जेष्यामो माधवं नृप
सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः। कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः
बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः। तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप
नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ। ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ
जम्भश्चैवाब्रवीद्वाक्यमिंद्रमिंद्रपुरोगमान्। जेष्यामि नात्र संदेहो दैत्या भवत विज्वराः
त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्। तावदूचेऽथ सेनानीर्मयो देवांतको बली
कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्। एतस्मिन्नंतरे तत्र नारदो मुनिसत्तमः
गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः। राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्
न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्। ततः कोपादुवाचेदं नारदं मुनिसत्तमम्
अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः। देवानां च विपत्तिं च कदनं निधनं पुरः
पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम्। एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्। दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः
बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः। कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च
एकैकस्य च वीरस्य वाहनानि महांति च। स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा। वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः। सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे
देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः। वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः। भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः। शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे