अवजानाति यो मोहात्पुरुषस्तु महोत्सवे। न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः
महामखेन युष्माभिः पूजा गणपतेः कृता। हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः। पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्। प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः
देवा ऊचुः-। गणाधिप नमस्तुभ्यं सर्वदेवैकपालक। स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु। महामायं महाकायं हेरंब त्वां नताः स्म ह
एकदंतं महाप्राज्ञं लंबतुंडं विनायकम्। देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः। सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्
युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः। ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति। देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्
बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्। ततो देवगणास्सर्वे हर्षनिर्भरमानसाः
गणेशं पूजयामासुर्गंधसारैस्तु मण्डनैः। दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः
पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः। पूजितो गणपो देवैरुवाच सुरसत्तमान्
गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्। स विधास्यति वः कामं वांच्छितं च ततः सुराः
स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्। पीतांबरं नमस्कृत्य ऊचुर्देवगणा मुदा
हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम्। आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव
एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः। यथातथ्यमुवाचेदं हनिष्ये दैत्यपुंगवान्
श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्। हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्
पुनर्विष्णुरुवाचेदं देवानिंद्रपुरोगमान्। स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः
हरिष्ये तान्दुराचारान्बलं चैव समंततः। अस्त्रवृंदं तु संगृह्य यूयं तिष्ठत निर्भयाः
माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः। विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै। राजानं कथयामासुर्हिरण्याक्षं महाबलम्
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः। सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.
अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः। माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्
कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे। त्रिपुरारिरुवाचेदं गणेशं यजतामराः
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्। ततो देवगणैर्हृष्टैः पूजितो गणनायकः
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्। जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः
हरिं निवेदयामासुरस्मद्वधपरीप्सवः। हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः
युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि। यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्। जेष्यामि च हरिं राजन्सहायं मे नियोजय