न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः। शृंगिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः
न राजा कुप्यति गृहे न च मारी प्रवर्तते। न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि। सर्वविघ्नछिदे तस्मै गणाधिपतये नमः
मंत्रश्चायं ॐ नमो गणपतये। नारायणप्रियैः पुष्पैरन्यैश्चापि सुगंधिभिः। मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा
दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगंधिभिः। पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्
विशेषात्तस्य लिंगे तु यो ददाति वसुप्रियम्। पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्
देशे च भारते वर्षे वनिता पूर्वसन्निधौ। लौहित्यदक्षिणे तीरे लिंगरूपो विनायकः
हरगौरीसमादेशाद्देवानां संमतेन च। स्थितो लोकप्रशांत्यर्थं सर्वविघ्नविनाशनात्
पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयैः। विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः
सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः। अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते
संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्। पुत्रार्थं सर्वलोकानां तत्र शंभुर्विनायकः
कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्। सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः
न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्। विनायकं समासाद्य जन्मजन्मनि संलभेत्
पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्। पूजयित्वा तु गणपं नरस्य नात्र संशयः
अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति। तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः
मघोनो गणपस्याथ पूजाविरहितस्य च। अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे
मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा। ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा
दैवासुरे महायुद्धे सुराणां च पराजयः। ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्
भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः। एतस्मिन्नंतरे शंभुर्देवान्वचनमब्रवीत्
हेरंबाय वरो दत्त उमया प्रीतया मया। पूजया ते परा सिद्धिर्देवादीनां भवत्विति
अवजानाति यो मोहात्पुरुषस्तु महोत्सवे। न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः
महामखेन युष्माभिः पूजा गणपतेः कृता। हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः। पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्। प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः
देवा ऊचुः-। गणाधिप नमस्तुभ्यं सर्वदेवैकपालक। स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु। महामायं महाकायं हेरंब त्वां नताः स्म ह
एकदंतं महाप्राज्ञं लंबतुंडं विनायकम्। देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः। सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्
युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः। ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति। देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्