तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने। गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः
एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया। पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्
नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं। लिंगे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि
गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशांतिद। उमानंदप्रद प्राज्ञ त्राहि मां भवसागरात्
हरानंदकरध्यान ज्ञानविज्ञानद प्रभो। विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा
कृतोपवासो गणपं पूजयेद्यो नरो मुदा। सर्वपापविनिर्मुक्तः सुरलोके महीयते
स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं। ॐनमो गणपतये मंत्र एष उदाहृतः
गणपतिर्विघ्नराजो लंबतुंडो गजाननः। द्वैमातुरश्च हेरम्ब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः। द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्
विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्। महाप्रेताश्शमं यांति पीड्यते व्याधिभिर्न च। सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम। त्रिषष्टितमोऽध्यायः
व्यास उवाच- पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च। सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं
एकदंतं महाकायं तप्तकांचनसन्निभम्। लंबोदरं विशालाक्षं वंदेहं गणनायकं
मुंजकृष्णाजिनधरं नागयज्ञोपवीतकम्। बालेंदुकलिकामौलिं वंदेहं गणनायकं
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्। मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महाबाहुं वंदेहं गणनायकम्। अंबिकाहृदयानंदं मातृकापरिवेष्टितम्
भक्तिप्रियं मदोन्मत्तं वंदेहं गणनायकम्। चित्ररत्नविचित्रांगं चित्रमालाविभूषणम्
कामरूपधरं देवं वंदेहं गणनायकम्। गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्
पाशांकुशधरं देवं वंदेहं गणनायकम्। यक्षकिन्नरगंधर्वैः सिद्धविद्याधरैस्सदा
स्तूयमानं महादेहं वंदेहं गणनायकम्। गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः
सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते। न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः
य इदं पठते नित्यं महाराजो भवेन्नरः। वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि। स्तोत्रं परं महापुण्यं गणपस्य महात्मनः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम-चतुष्षष्टितमोऽध्यायः
व्यास उवाच-। नांदीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्। तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्
गणानां त्वेति मंत्रेण सर्वयज्ञघटेषु च। सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः
मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये। द्वारदारुणि पात्रे च हेरंबं लेखयेद्बुधः
अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे। स्थापयित्वा तु हेरंबं शक्त्या यः पूजयेद्बुधः
तस्य कार्याणि सिद्ध्यंति दयितानि समंततः। न विघ्नं जायते किंचित्त्रैलोक्यं वशमानयेत्
विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्। अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्
धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्। ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्