देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्। अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने
अंते च पूजा कस्यैव कस्य को वा प्रभावकः। किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः
व्यास उवाच- गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह। विनायकत्वमाप्नोति यथा गौरीसुतो हि सः
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ। सर्वलोकधरौ शूरौ देवौ स्कंदगणाधिपौ
तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत। इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः
महाबुद्धीति विख्यातं सुधया परिनिर्मितम्। गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ
अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्। सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः
निपुणः सर्वतंत्रेषु लेखकश्चित्रकृत्सुधीः। ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः
पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्। यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम्
श्रुत्वा मातृमुखादेवं वचः परमकोविदः। स्कंदस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं
बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्। पितरौ प्रदक्षिणं कृत्वा लंबोदरधरस्सुधीः
तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः। पुरतश्च तथा स्कंदो मे देहीति ब्रुवन्स्थितः
ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्। सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा
सर्वयज्ञव्रतैर्मंत्रैर्योगैरन्यैर्यमैस्तथा। पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्
तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि। अतो ददामि हेरम्बे मोदकं देवनिर्मितम्
अस्यैव कारणादस्य अग्रे पूजा मखेषु च। वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च
पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्। अस्यैव पूजनादग्रे देवास्तुष्टा भवंतु च
सर्वासामपि देवीनां पितॄणां च समंततः। तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे
ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः। कोटिकोटिगुणं तेषु देवदेवी वचो यथा
दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा। कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा
तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने। गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः
एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया। पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्
नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं। लिंगे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि
गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशांतिद। उमानंदप्रद प्राज्ञ त्राहि मां भवसागरात्
हरानंदकरध्यान ज्ञानविज्ञानद प्रभो। विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा
कृतोपवासो गणपं पूजयेद्यो नरो मुदा। सर्वपापविनिर्मुक्तः सुरलोके महीयते
स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं। ॐनमो गणपतये मंत्र एष उदाहृतः
गणपतिर्विघ्नराजो लंबतुंडो गजाननः। द्वैमातुरश्च हेरम्ब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः। द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्
विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्। महाप्रेताश्शमं यांति पीड्यते व्याधिभिर्न च। सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते