अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः । रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत्
श्यामो नारायणो देवो नाभिचक्रे तथोन्नते । दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः
ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम् । कामदं मोक्षदं चैव अर्थदं च विशेषतः
परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः । बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम्
कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने । द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः
कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः । ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत्
वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते । इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः
दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा
कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः । हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः
हयग्रीवो हयाकारो रेखापंचकभूषितः । बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम्
वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम् । द्वारोपरि तथा रेखा गुंजाकारा सुशोभना
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया । कदंबकुसुमाकारो रेखापंचकभूषितः
वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः । अतसीकुसुमप्रख्यो बिंदुना परिशोभितः
सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः । वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे
दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् । दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च
नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितः । अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः
विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम् । पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः
दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम् । यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति
आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम् । तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत्
चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् । सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम्
अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च । पांडुरा पापदहनी पितापुत्रफलप्रदा
नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी । रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् । तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम्
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च । संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम्
नवमं च नवव्यूहं दशमं तु तदात्मकम् । एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम्
अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके । खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक्
इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत् । स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम्
तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम् । शालग्रामशिला यत्र तत्र संनिहितो हरिः
तत्र दानं जपः स्नानं वाराणस्याः शताधिकम् । कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा
तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् । ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः