सर्वत्र सुलभा गंगा त्रिषुस्थानेषु दुर्लभा। गंगाद्वारे प्रयागे च गंगासागरसंगमे
त्रिरात्रेणैकरात्रेण नरो याति परां गतिम्। तस्मात्सर्वप्रयत्नेन सद्यो मुक्तिं विचिंतयेत्
ततो गच्छत धर्मज्ञाः शिवां भागीरथीमिह। अचिरेणैव कालेन स्वर्गं मोक्षं प्रगच्छथ
विशेषात्कलिकाले च गंगा मोक्षप्रदा नृणां। कृच्छ्राच्च क्षीणसत्वानामनंतः पुण्यसंभवः
ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्गिरं शुभाम्। गंगायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्। सर्वं तरति दुःखौघ गंगास्नानफलं लभेत्
सकृदुच्चारिते चैव सर्वयज्ञफलं लभेत्। दानं जप्यं तथा ध्यानं स्तोत्रं मंत्रं सुरार्चनम्
तत्रैव कारयेद्यस्तु स चानंतफलं लभेत्। तस्मात्तत्रैव कर्त्तव्यं जपहोमादिकं नरैः
अनंतं च फलं प्रोक्तं जन्मजन्मसु लभ्यते
पुलस्त्य उवाच- एतस्मिन्नंतरे पूर्वं व्यासशिष्यो महामुनिः। नमस्कृत्य गुरुं भीष्म संजयः परिपृच्छति
देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्। अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने
अंते च पूजा कस्यैव कस्य को वा प्रभावकः। किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः
व्यास उवाच- गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह। विनायकत्वमाप्नोति यथा गौरीसुतो हि सः
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ। सर्वलोकधरौ शूरौ देवौ स्कंदगणाधिपौ
तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत। इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः
महाबुद्धीति विख्यातं सुधया परिनिर्मितम्। गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ
अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्। सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः
निपुणः सर्वतंत्रेषु लेखकश्चित्रकृत्सुधीः। ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः
पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्। यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम्
श्रुत्वा मातृमुखादेवं वचः परमकोविदः। स्कंदस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं
बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्। पितरौ प्रदक्षिणं कृत्वा लंबोदरधरस्सुधीः
तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः। पुरतश्च तथा स्कंदो मे देहीति ब्रुवन्स्थितः
ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्। सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा
सर्वयज्ञव्रतैर्मंत्रैर्योगैरन्यैर्यमैस्तथा। पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्
तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि। अतो ददामि हेरम्बे मोदकं देवनिर्मितम्
अस्यैव कारणादस्य अग्रे पूजा मखेषु च। वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च
पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्। अस्यैव पूजनादग्रे देवास्तुष्टा भवंतु च
सर्वासामपि देवीनां पितॄणां च समंततः। तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे
ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः। कोटिकोटिगुणं तेषु देवदेवी वचो यथा
दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा। कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा