नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम्। किं सृष्टं च त्वया तात संमतं शंभुकृष्णयोः
सर्वलोकहितार्थाय भुवःस्थाने समीहितम्। देवी वा देवता का वा सर्वासामुत्तमोत्तमा
यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः। अंडजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः
सर्वे यांति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम्। ब्रह्मोवाच- सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी
आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम्। एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा
गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा। ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी
वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः। गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्
स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः। उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः
क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः। ततस्सुधारसं देवा मुमुचुर्धरणीतले
अथ सस्यवती पृथ्वी ओषधीनां परा शुभा। फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्
भारती सर्वलोकानां चानने मानसे स्थिता। तथैव सर्वशास्त्रेषु धर्मोद्देशं करोति सा
विज्ञानं कलहं शोकं मोहामोहं शिवाशिवम्। तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतम्
कमलासंभवश्चैव वस्त्रभूषणसंचयः। सुखं राज्यं त्रिलोके तु ततः सा हरिवल्लभा
उमया हेतुना शंभोर्ज्ञानं लोकेषु संततम्। ज्ञानमाता च सा ज्ञेया शंभोरर्धाङ्गवासिनी
वर्णिकाशक्तिरत्युग्रा सर्वलोकप्रमोहिनी। सर्वलोकेषु लोकानां स्थितिसंहारकारिणी१०० 1.62.100 देव्या च निहतौ पूर्वमसुरौ मधुकैटभौ। रुरुश्चापि हतो घोरः सर्वलोकपरिश्रुतः
सर्वदेवैकजेतारं सा जघ्ने महिषासुरम्। निहता लीलया देव्या येऽसुरा दैत्यपुंगवाः
एवं बलानि दैत्यानां निहत्य सर्वदा तया। पालितं मोदितं चैव कृत्स्नमेतज्जगत्त्रयम्
धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता। महतीं तां समालोक्य मया कमंडलौ धृता
विष्णुपादाब्जसम्भूता शंभुना शिरसा धृता। अस्माभिश्च त्रिभिर्युक्ता ब्रह्मविष्णुमहेश्वरैः
धर्मद्रवा परिख्याता जलरूपा कमंडलौ। बलियज्ञेषु संभूता विष्णुना प्रभविष्णुना
छद्मना छलितः पूर्वं बलिर्बलवतां वरः। ततः पादद्वयेनैव क्रांतं सर्वं महीतलम्
नभः पादश्च ब्रह्माण्डं भित्वा मम पुरः स्थितः। मया संपूजितः पादः कमण्डलुजलेन वै
प्रक्षाल्यैवार्चितात्पादाद्धेमकूटेऽपतज्जलम्। तत्कूटाच्छंकरं प्राप्य भ्रमते सा जटास्थिता
ततो भगीरथेनैव समाराध्य शिवं भुवि। आनीयाराधितो नित्यं तपसा गजपुंगवः
तेन भित्वा नगं वीर्यात्त्रिभिर्दंतैः कृतं बिलम्। ततस्त्रिबिलगा यस्मात्त्रिस्रोता लोकविश्रुता
हरिब्रह्महरयोगात्पूता लोकस्य पावनी। समासाद्य च तां देवीं सर्वधर्मफलं लभेत्
पाठयज्ञपरैः सर्वैर्मंत्र होम सुरार्चनैः। सा गतिर्न भवेज्जंतोर्गंगा संसेवया च या
धर्मस्य साधनोपायो ह्यतः परो न विद्यते। त्रैलोक्यपुण्यसंयोगात्तस्मात्तां व्रज नारद
गंगातोयास्थिसंयोगात्सुतास्ते सगरस्य च। स्वर्गताः पितृभिश्चैव स्वपूर्वापरजैः सह
ततो ब्रह्ममुखाच्छ्रुत्वा नारदो मुनिपुंगवः। गंगाद्वारे तपः कृत्वा ब्रह्मणा सदृशोभवत्