यावदस्थि मनुष्यस्य गंगातोये प्रतिष्ठति। तावद्वर्षसहस्राणि स्वर्गलोके महीयते
पित्रोर्बंधुजनानां च अनाथानां गुरोरपि। गंगायामस्थिपातेन नरः स्वर्गान्न हीयते
गंगां प्रतिवहेद्यस्तु पितॄणामस्थिखंडकम्। पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः
धन्या जानपदा ये च पशवः पक्षिकीटकाः। स्थावरा जंगमाश्चान्ये गंगातीरसमाश्रिताः
क्रोशांतर मृता ये च जाह्नव्या द्विजसत्तमाः। मानवा देवतास्संति इतरे मानवा भुवि
गंगास्नानाय संगच्छन्पथि संम्रियते यदि। स च स्वर्गमवाप्नोति गंगास्नानफलं लभेत्
गंगाजले प्रयास्यंति ते जीवाः पथि ये मृताः। कीटाः पंतंगाश्शलभाः पादाघातेन गच्छतां
ये वदंति समुद्देशं गंगां प्रति जनं द्विजाः। ते च यांति परं पुण्यं गंगास्नानफलं नराः
जाह्नवीं ये च निंदंति पाषण्डैर्हतचेतसः। ते यांति नरकं घोरं पुनरावृत्तिदुर्लभम्
दुस्थोवापि स्मरन्नित्यं गंगेति परिकीर्तयन्। पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि। मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
अंधाश्च पंगवस्ते च वृथाभव समुद्भवाः। गर्भपाताद्विपद्यंते ये गंगां न गता नराः
न कीर्तयंति ये गंगां जडतुल्या नराधमाः। परान्नोपदिशंति स्म वातूलाश्चित्तविभ्रमाः
न पठंति जना ये च तेषां शास्त्रं विनिष्फलम्। गंगापुण्यफलं विप्राः कुधियः पतिताधमाः
पाठयंति जना ये च श्रद्धया निपठंति च। गच्छंति ते दिवं धीरास्तारयंति पितॄन्गुरून्
पाथेयकं गच्छतां यो वसु शक्त्या प्रयच्छति। भागीरथ्या लभेत्स्नानं यः परान्नेन गच्छति
कर्तुः स्नानफलं विद्याद्द्विगुणं प्रेरकस्य च। इच्छयानिच्छया चापि प्रेरणेनान्यसेवया
जाह्नवीं यो गतः पुण्यां स गच्छेन्निर्जरालयम्। द्विजा ऊचुः- गंगायाः कीर्तनं व्यास श्रुतं त्वत्तो विनिर्मलम्
गंगा कस्मात्किमाकारा कुतः सा ह्यतिपावनी। व्यास उवाच- शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं
यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः। ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुंगवः
नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम्। किं सृष्टं च त्वया तात संमतं शंभुकृष्णयोः
सर्वलोकहितार्थाय भुवःस्थाने समीहितम्। देवी वा देवता का वा सर्वासामुत्तमोत्तमा
यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः। अंडजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः
सर्वे यांति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम्। ब्रह्मोवाच- सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी
आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम्। एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा
गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा। ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी
वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः। गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्
स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः। उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः
क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः। ततस्सुधारसं देवा मुमुचुर्धरणीतले
अथ सस्यवती पृथ्वी ओषधीनां परा शुभा। फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्