जीवन्मुक्तस्स एवेह सर्वेषामुत्तमोत्तमः। गंगां संश्रित्य यस्तिष्ठेत्तस्य कार्यं न विद्यते
कृतकृत्यस्स वै मुक्तो जीवन्मुक्तश्च मानवः। यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम्
गंगायां तु कृतं नित्यं कोटिकोटि गुणं भवेत्। अन्यस्थाने कृतं पापं गंगातीरे विनश्यति
गंगातीरे कृतं पापं गंगास्नानेन नश्यति। आत्मनो जन्मनक्षत्रे जाह्नवीसंगते दिने
नरः स्नात्वा तु गंगायां स्वकुलं च समुद्धरेत्। आदरेण यथा स्तौति धनवंतं सदा नरः५० 1.62.
सकृद्गंगां तथा स्तुत्वा भवेत्स्वर्गस्य भाजनम्। अश्रद्धयापि गंगायां योसौ नामानुकीर्तनं
करोति पुण्यवाहिन्यास्स वै स्वर्गस्य भाजनम्। क्षितौ भावयतो मर्त्यान्नागांस्तारयतेप्यधः
दिवि तारयते देवान्गंगा त्रिपथगा स्मृता। ज्ञानतोज्ञानतो वापि कामतोऽकामतोपि वा
गंगायां च मृतो मर्त्यः स्वर्गं मोक्षं च विंदति। या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गंगायां तु शरीरिणः। चांद्रायणसहस्राणि यश्चरेत्कायशोधनम्
पानं कुर्याद्यथेच्छं च गंगांभः स विशिष्यते। तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः
तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम्। तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्
दिविभुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि। विष्णुपादाब्जसंभूते गंगे त्रिपथगामिनि
धर्मद्रवेति विख्याते पापं मे हर जाह्नवि। विष्णुपादप्रसूतासि वैष्णवी विष्णुपूजिता
त्राहि मामेनसस्तस्मादाजन्ममरणांतिकात्। श्रद्धया धर्मसंपूर्णे श्रीमता रजसा च ते
अमृतेन महादेवि भागीरथि पुनीहि मां। त्रिभिः श्लोकवरैरेभिर्यः स्नायाज्जाह्नवी जले
जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः। मूलमंत्रं प्रवक्ष्यामि जाह्नव्या हरभाषितम्
सकृज्जपान्नरः पूतो विष्णुदेहे प्रतिष्ठति। मंत्रश्चायं- ॐनमो गंगायै विश्वरूपिण्यै नारायण्यै नमोनमः
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः। सर्वपापविनिर्मुक्तो गंगास्नानं विना नरः
गंगाजलोर्मिनिर्धूत पवनं स्पृशते यदि। स पूतः कल्मषाद्घोरात्स्वर्गं चाक्षयमश्नुते
यावदस्थि मनुष्यस्य गंगातोये प्रतिष्ठति। तावद्वर्षसहस्राणि स्वर्गलोके महीयते
पित्रोर्बंधुजनानां च अनाथानां गुरोरपि। गंगायामस्थिपातेन नरः स्वर्गान्न हीयते
गंगां प्रतिवहेद्यस्तु पितॄणामस्थिखंडकम्। पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः
धन्या जानपदा ये च पशवः पक्षिकीटकाः। स्थावरा जंगमाश्चान्ये गंगातीरसमाश्रिताः
क्रोशांतर मृता ये च जाह्नव्या द्विजसत्तमाः। मानवा देवतास्संति इतरे मानवा भुवि
गंगास्नानाय संगच्छन्पथि संम्रियते यदि। स च स्वर्गमवाप्नोति गंगास्नानफलं लभेत्
गंगाजले प्रयास्यंति ते जीवाः पथि ये मृताः। कीटाः पंतंगाश्शलभाः पादाघातेन गच्छतां
ये वदंति समुद्देशं गंगां प्रति जनं द्विजाः। ते च यांति परं पुण्यं गंगास्नानफलं नराः
जाह्नवीं ये च निंदंति पाषण्डैर्हतचेतसः। ते यांति नरकं घोरं पुनरावृत्तिदुर्लभम्
दुस्थोवापि स्मरन्नित्यं गंगेति परिकीर्तयन्। पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः