पिंडादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः। भवंति सुखिनः सर्वे मर्त्याश्शतसहस्रशः
स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः। नित्यं वांञ्छंति सद्गंगां गच्छंतु सुरनिम्नगाम्
एको गच्छति गंगां यः पूयंते तस्य पूरुषाः। एतदेव महापुण्यं तरते तारयत्यपि
गंगा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः। अतः किंचिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्
मुनयः सिद्धगंधर्वा ये चान्ये सुरसत्तमाः। गंगातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्
दिव्येन वपुषा सर्वे कामगेन रथेन च। अद्यापि न निवर्तंते रत्नपूर्णक्षयेषु वै
प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः। इष्टद्रव्यैः सुसंपूर्णाः स्त्रियो यत्र मनोरमाः
पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः। गंगातीरे तपस्तप्त्वा तत्रैश्वर्यं लभंति हि
तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा। पुरुदानैर्गतिर्या च गंगां संसेवतां च सा
जारजं पतितं दुष्टमंत्यजं गुरुघातिनम्। सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्
त्यजंति पितरं पुत्राः प्रियं पत्न्यः सुहृद्गणाः। अन्ये च बांधवाः सर्वे गंगा तु न परित्यजेत्
यथा माता स्वयं जन्ममलशौचं च कारयेत्। क्रोडीकृत्य तथा तेषां गंगा प्रक्षालयेन्मलम्
भवंति ते सुविख्याता भोग्यालंकारपूजिताः। दर्शने क्रियते गंगा सकृद्भक्त्या नरैस्तु यैः
तेषां कुलानां लक्षं तु भवात्तारयते शिवा। स्मृतार्ति हर्त्री यैर्ध्याता संस्तुता साधुमोदिता
गंगा तारयते नॄणामुभौ वंशौ भवार्णवात्। संक्रांतिषु व्यतीपाते ग्रहणे चंद्रसूर्ययोः
पुण्ये स्नात्वा तु गंगायां कुलकोटिं समुद्धरेत्। शुक्लपक्षे दिवामर्त्या गंगायामुत्तरायणे
धन्या देहं विमुंचंति हृदिस्थे च जनार्दने। अनेन विधिना यस्तु भागीरथ्या जले शुभे
प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितम्। यो गंगानुगतो नित्यं सर्वदेवानुगो हि सः
सर्वदेवमयो विष्णुर्गंगा विष्णुमयी यतः। गंगायां पिंडदानेन पितॄणां वै तिलोदकैः
नरकस्था दिवं यांति स्वर्गस्था मोक्षमाप्नुयुः। परदारपरद्रव्य बाधा द्रोहपरस्य च
गतिर्मनुष्यमात्रस्य गंगैव परमा गतिः। वेदशास्त्रविहीनस्य गुरुनिंदापरस्य च
समयाचारहीनस्य नास्ति गंगासमा गतिः। किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः
स्वर्गमोक्षप्रदा गंगा सुखसौभाग्यपूजिता। नियमैः परमैर्नित्यं किं योगैश्चित्तरोधकैः
भुक्तिमुक्तिप्रदा गंगा सुखमोक्षाग्रतः स्थिता। अनेकजन्मसंघात पापं पुंसां विनश्यति
स्नानमात्रेण गंगायां सद्यः स्यात्पुण्यभाङ्नरः। प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे
लभते यत्फलं दाने गंगास्नानाद्दिनेदिने। दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु लभते दिवम्
प्रसंगादपि सा गंगा मोक्षदा त्ववगाहिता। सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसंभवम्
निर्घृणत्वं ततो गंगा दर्शनात्प्रविनश्यति। परद्रव्याभिकांक्षित्वं परदाराभिलाषिता
परधर्मे रुचिश्चैव दर्शनादेव नश्यति। यदृच्छालाभ संतोषस्स्वधर्मेषु प्रवर्तते
सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेत्। यस्तु गंगां समाश्रित्य सुखं तिष्ठति मानवः