सर्वं च मंगलं तस्य नास्ति किंचिदमंगलम्। सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम्
निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः। जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्। तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः
तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः
द्विषष्टितमोऽध्यायः 1.62 द्विजाऊचुः- मज्जनादखिलं पापं क्षयं यांति सुनिश्चितम्। महापातकमन्यच्च तदादेशं वदस्व नः
पापात्पूतोऽक्षयं नाकमश्नुते दिवि शक्रवत्। सुरयोनेर्न हानिः स्यादुपदेशं वदस्व नः
अत्र भोग्यं परं सर्वं मृते स्वर्गे सुरोत्तमः। कलिपापहतानां च स्वर्गसोपानमुच्यते
व्यास उवाच- गतिं चिंतयतां विप्रास्तूर्णं सामान्यजन्मनाम्। स्त्रीपुंसामीक्षणाद्यस्माद्गंगा पापं व्यपोहति
गंगेति स्मरणादेव क्षयं याति च पातकम्। कीर्तनादतिपापानि दर्शनाद्गुरुकल्मषम्
स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा। महापातकवृंदानि क्षयं यांति दिनेदिने
अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा। तथा गंगाजलस्पर्शात्पुंसां पापं दहेत्क्षणात्
संप्राप्नोत्यक्षयं स्वर्गं गंगास्नानेन केशवम्। यशो राज्यं लभेत्पुण्यें स्वर्गमंते परां गतिम्
पितॄनुद्दिश्य गंगायां यस्तु पिंडं प्रयच्छति। विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु
अन्नैकेन तु साहस्रं वर्षं पूज्यः सुरालये। तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च
गव्येन विधिना विप्राः स्वर्गस्यांतो न विद्यते। एवं पिंडप्रदानेन नित्यं क्रतुशतं भवेत्
पितरो निरयस्था ये धन्यास्ते मर्त्यवासिनः। धनपुत्रयुतारोग्यं सुखसंमानपूजिताः
रसातलगता ये च ये च कीटा महीतले। स्थावरे पक्षिसंघादौ ते मर्त्या धनिनो नृपाः
तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा। जामातृभागिनेयैश्च सुहृन्मित्रैः प्रियाप्रियैः
प्रदीयते जलं पिंडं यथोपकरणान्वितम्। गंगातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्
पिंडादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः। भवंति सुखिनः सर्वे मर्त्याश्शतसहस्रशः
स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः। नित्यं वांञ्छंति सद्गंगां गच्छंतु सुरनिम्नगाम्
एको गच्छति गंगां यः पूयंते तस्य पूरुषाः। एतदेव महापुण्यं तरते तारयत्यपि
गंगा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः। अतः किंचिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्
मुनयः सिद्धगंधर्वा ये चान्ये सुरसत्तमाः। गंगातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्
दिव्येन वपुषा सर्वे कामगेन रथेन च। अद्यापि न निवर्तंते रत्नपूर्णक्षयेषु वै
प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः। इष्टद्रव्यैः सुसंपूर्णाः स्त्रियो यत्र मनोरमाः
पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः। गंगातीरे तपस्तप्त्वा तत्रैश्वर्यं लभंति हि
तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा। पुरुदानैर्गतिर्या च गंगां संसेवतां च सा
जारजं पतितं दुष्टमंत्यजं गुरुघातिनम्। सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्