तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः। स्नाने दाने तथा ध्याने प्राशने केशवार्चने
तुलसी दहते पापं कीर्तने रोपणे कलौ। तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये
केशवार्थं चिनोमि त्वां वरदा भव शोभने। त्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम्
तथा कुरु पवित्रांगि कलौ मलविनाशिनि। मंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम्
पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्। प्रभावं तव देवेशि गायंति सुरसत्तमाः
मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम्। न ते प्रभावं जानंति देवताः केशवादृते
गुणानां परिमाणं तु कल्पकोटिशतैरपि। कृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे
उत्तमांगे पुरा येन तुलसी विष्णुना धृता। प्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः
पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्। त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम्
तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्। रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता
जगद्धिताय तुलसी गोपीनां हितहेतवे। वृंदावने विचरता सेविता विष्णुना स्वयम्
गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च। वसिष्ठवचनात्पूर्वं रामेण सरयूतटे
राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये। रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्
वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा। अशोकवनमध्ये तु प्रियेण सह संगता
शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये। रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्
सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदने। दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते
धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्। सेविता तुलसी पुण्या आत्मनो हितमिच्छता
रोपिता रामचंद्रेण सेविता लक्ष्मणेन च। पालिता सीतया भक्त्या तुलसी दंडके वने
त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयते। तथैव तुलसी देवी दृश्यते सचराचरे
ऋश्यमूके च वसता कपिराजेन सेविता। तुलसी वालिनाशाय तारासंगम हेतवे
प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम्। कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः
तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैः। अथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्। गंगास्नानमवाप्नोति दशधेनुफलप्रदम्
प्रसीद देवि देवेशि प्रसीद हरिवल्लभे। क्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम्
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्। द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः
यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम्। तत्सर्वं विलयं याति तुलसीस्तव पाठतः
प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छति। कुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति
तुलसीनाममात्रेण देवा यच्छंति वांछितम्। गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम्
तुलसी स्तवसंतुष्टा सुखं वृद्धिं ददाति च। उद्गतं हेलया विद्धि पापं यमपथे स्थितम्
यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवः। नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम्