न तिष्ठंति क्षणं तत्र यत्रेयं वर्तते लिपिः
एकषष्टितमोऽध्यायः 1.61 द्विजाऊचुः- तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्। तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम्
व्यास उवाच- पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाः। कथयामि पुराणं च पुरतो मोक्षहेतवे
शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताः। प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम्
पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्। तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर
शतानंद उवाच- नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा। पापानि विलयं यांति पुण्यं भवति चाक्षयम्
सा कथं तुलसी लोकैः पूज्यते वंद्यते नहि। दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत्
धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ। सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ
तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाः। केशवार्थं कलौ ये च रोपयंतीह भूतले
किं करिष्यति संरुष्टो यमोपि सह किंकरैः। तुलसीदलेन देवेशः पूजितो येन दुःखहा
तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः। स्नाने दाने तथा ध्याने प्राशने केशवार्चने
तुलसी दहते पापं कीर्तने रोपणे कलौ। तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये
केशवार्थं चिनोमि त्वां वरदा भव शोभने। त्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम्
तथा कुरु पवित्रांगि कलौ मलविनाशिनि। मंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम्
पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्। प्रभावं तव देवेशि गायंति सुरसत्तमाः
मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम्। न ते प्रभावं जानंति देवताः केशवादृते
गुणानां परिमाणं तु कल्पकोटिशतैरपि। कृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे
उत्तमांगे पुरा येन तुलसी विष्णुना धृता। प्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः
पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्। त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम्
तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्। रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता
जगद्धिताय तुलसी गोपीनां हितहेतवे। वृंदावने विचरता सेविता विष्णुना स्वयम्
गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च। वसिष्ठवचनात्पूर्वं रामेण सरयूतटे
राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये। रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्
वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा। अशोकवनमध्ये तु प्रियेण सह संगता
शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये। रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्
सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदने। दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते
धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्। सेविता तुलसी पुण्या आत्मनो हितमिच्छता
रोपिता रामचंद्रेण सेविता लक्ष्मणेन च। पालिता सीतया भक्त्या तुलसी दंडके वने
त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयते। तथैव तुलसी देवी दृश्यते सचराचरे
ऋश्यमूके च वसता कपिराजेन सेविता। तुलसी वालिनाशाय तारासंगम हेतवे