ब्रह्महत्यादयः पापव्याधयः पापसंभवाः। कुमंत्रिणा कृता ये च सर्वे नश्यंति तत्र वै
भूतले वापि तं येन हर्यर्थं तुलसीवनम्। कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम्
हरिलिंगेषु चान्येषु सालग्रामशिलासु च। तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत्
नंदंति पुरुषास्तस्य माधवार्थे क्षितौ तु यः। तुलसीं रोपयेद्धीरः स याति माधवालयम्
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्। धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत्
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ। तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च
उपदेशं दिशेदस्याः स्वयमाचरते पुनः
स याति परमं स्थानं माधवस्य निकेतनम्। हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत्
सर्वेषामपि देवानां देवीनां च समंततः। श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु। तुलसी सेविता येन तेन सर्वं तु सेवितम्
गुरुं विप्रं देवतीर्थं तस्मात्सेवय षण्मुख। शिखायां तुलसीं कृत्वा यस्तु प्राणान्परित्यजेत्
दुष्कृतौघाद्विनिर्मुक्तः स्वर्गमेति निरामयम्। राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः
या गतिः प्राप्यते धीरैः तुलसीसेविनां भवेत्। तुलसीदलेन चैकेन पूजयित्वा हरिं नरः
वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः। न पिबेत्स पयो मातुस्तुलस्याः कोटिसंख्यकैः
अर्चितः केशवो येन शाखामृदुलपल्लवैः। भावयेत्पुरुषान्मर्त्यः शतशोथ सहस्रशः
पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः। प्रधानतो गुणास्तात तुलस्या गदिता मया
निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः। यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसंचयम्
पूर्वजन्मकृतात्पापान्मुच्यते जन्मबंधनात्। सकृत्पठनमात्रेण वह्निष्टोमफलं लभेत्
न तस्य व्याधयः पुत्र मूर्खत्वं न कदाचन। सर्वदा जयमाप्नोति न गच्छेत्स पराजयं
लेखस्तिष्ठेद्गृहे यस्य तस्य लक्ष्मीः प्रवर्तते। न चाधयो न च प्रेता न शोको नावमानना
न तिष्ठंति क्षणं तत्र यत्रेयं वर्तते लिपिः
एकषष्टितमोऽध्यायः 1.61 द्विजाऊचुः- तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्। तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम्
व्यास उवाच- पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाः। कथयामि पुराणं च पुरतो मोक्षहेतवे
शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताः। प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम्
पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्। तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर
शतानंद उवाच- नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा। पापानि विलयं यांति पुण्यं भवति चाक्षयम्
सा कथं तुलसी लोकैः पूज्यते वंद्यते नहि। दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत्
धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ। सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ
तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाः। केशवार्थं कलौ ये च रोपयंतीह भूतले
किं करिष्यति संरुष्टो यमोपि सह किंकरैः। तुलसीदलेन देवेशः पूजितो येन दुःखहा