कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा। धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च
वेदवेदांगशास्त्रं च पुराणागमसंहिताः। सर्वं करगतं मन्ये तुलस्याभ्यर्चने हरेः
यथा गंगा पवित्रांगी सुरलोके विमोक्षदा। यथा भागीरथी पुण्या तथैवं तुलसी शिवा
किं च गंगाजले नैव किंच पुष्करसेवया। तुलसीदलमिश्रेण जलेनैव प्रमोद्यते
माधवः संमुखो यस्य जन्मजन्मसुधीमतः। तस्य श्रद्धा भवेछ्रुत्वा तुलस्या हरिमर्चितुम्
यो मंजरीदलैरेव तुलस्या विष्णुमर्चयेत्। तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते
तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनम्। तत्र ब्रह्मा च कमला सर्वदेवगणैः सह
तस्मात्तां संनिकृष्टे तु सदा देवीं प्रपूजयेत्। स्तोत्रमंत्रादिकं यद्वा सर्वमानंत्यमश्नुते
ये च प्रेताश्च कूश्मांडाः पिशाचा ब्रह्मराक्षसाः। भूतदैत्यादयस्तत्र पलायंते सदैव हि
अलक्ष्मीर्नाशिनी घूर्णा या डाकिन्यादि मातरः। सर्वाः संकोचितां यांति दृष्ट्वा तु तुलसीदलं
ब्रह्महत्यादयः पापव्याधयः पापसंभवाः। कुमंत्रिणा कृता ये च सर्वे नश्यंति तत्र वै
भूतले वापि तं येन हर्यर्थं तुलसीवनम्। कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम्
हरिलिंगेषु चान्येषु सालग्रामशिलासु च। तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत्
नंदंति पुरुषास्तस्य माधवार्थे क्षितौ तु यः। तुलसीं रोपयेद्धीरः स याति माधवालयम्
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्। धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत्
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ। तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च
उपदेशं दिशेदस्याः स्वयमाचरते पुनः
स याति परमं स्थानं माधवस्य निकेतनम्। हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत्
सर्वेषामपि देवानां देवीनां च समंततः। श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु। तुलसी सेविता येन तेन सर्वं तु सेवितम्
गुरुं विप्रं देवतीर्थं तस्मात्सेवय षण्मुख। शिखायां तुलसीं कृत्वा यस्तु प्राणान्परित्यजेत्
दुष्कृतौघाद्विनिर्मुक्तः स्वर्गमेति निरामयम्। राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः
या गतिः प्राप्यते धीरैः तुलसीसेविनां भवेत्। तुलसीदलेन चैकेन पूजयित्वा हरिं नरः
वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः। न पिबेत्स पयो मातुस्तुलस्याः कोटिसंख्यकैः
अर्चितः केशवो येन शाखामृदुलपल्लवैः। भावयेत्पुरुषान्मर्त्यः शतशोथ सहस्रशः
पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः। प्रधानतो गुणास्तात तुलस्या गदिता मया
निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः। यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसंचयम्
पूर्वजन्मकृतात्पापान्मुच्यते जन्मबंधनात्। सकृत्पठनमात्रेण वह्निष्टोमफलं लभेत्
न तस्य व्याधयः पुत्र मूर्खत्वं न कदाचन। सर्वदा जयमाप्नोति न गच्छेत्स पराजयं
लेखस्तिष्ठेद्गृहे यस्य तस्य लक्ष्मीः प्रवर्तते। न चाधयो न च प्रेता न शोको नावमानना