कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम् । शालग्रामशिलारूपी यत्र तिष्ठति केशवः
तत्र देवासुरा यक्षा भुवनानि चतुर्दश
सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत् । तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ
शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः । वसंति पितरस्तस्य न संख्या तत्र विद्यते
ये पिबंति नरा भक्त्या शालग्रामशिलाजलम् । पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः । चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः
यः करोति तडागे तु प्रतिमां जलशायिनीम् । कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः
विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह । प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक
फलप्रमाणं नैवास्तिशालग्रामशिलार्चन । यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम्
विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः । गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । शालग्रामशिलातोयैरभिषेकं समाचरेत्
स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुह । शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः
मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम् । तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने
तत्फलं समवाप्नोति शालग्रामशिलार्चनात् । पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा
जायते मेरुणा तुल्यं शालग्रामे समर्पितम् । विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः
चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम् । यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् 6.120.
तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक । क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः
कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे । श्रीकृष्ण उवाच। निवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि
तत्रैव रथचक्रांके यानि नामानि मे शृणु । द्वारदेशे समे चक्रे दृश्येते नांतरं यदि । वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः
प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च । सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत्
अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः । रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत्
श्यामो नारायणो देवो नाभिचक्रे तथोन्नते । दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः
ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम् । कामदं मोक्षदं चैव अर्थदं च विशेषतः
परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः । बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम्
कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने । द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः
कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः । ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत्
वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते । इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः
दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा
कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः । हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः
हयग्रीवो हयाकारो रेखापंचकभूषितः । बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम्