य इदं शृणुयान्नित्यं पुण्याख्यानमिदं शुभम्। सर्वपाप प्रपूतात्मा विष्णुलोके महीयते
श्रावयेत्सततं लोके वैष्णवेषु विशेषतः। स याति विष्णुसायुज्यमिति पौराणिका विदुः
स्कंद उवाच- महीरुह फलं ज्ञातं प्रपूतं द्विविधं प्रभो। इदानीं श्रोतुमिच्छामि पत्रं पुष्पं सुमोक्षदम्
ईश्वर उवाच- सर्वेभ्यः पत्रपुष्पेभ्यः सत्तमा तुलसी शिवा। सर्वकामप्रदा शुद्धा वैष्णवी विष्णुसुप्रिया
भुक्तिमुक्तिप्रदा मुख्या सर्वलोकपरा शुभा। यामाश्रित्य गताः स्वर्गमक्षयं मुनिसत्तमाः
हितार्थं सर्वलोकानां विष्णुनारोपिता पुरा। तुलसीपत्रपुष्पं च सर्वधर्मप्रतिष्ठितम्
यथा विष्णोः प्रियालक्ष्मीर्यथाहं प्रिय एव च। तथेयं तुलसीदेवी चतुर्थो नोपपद्यते
तुलसीपत्रमेकं तु शतहेमफलप्रदम्। नान्यैः पुष्पैस्तथापत्रैर्नान्यैर्गंधानुलेपनैः
तुष्यते दैत्यहा विष्णुस्तुलस्याश्च दलैर्विना। अनेन पूजितो येन हरिर्नित्यं पराशया
तेन दत्तं हुतं ज्ञातं कृतं यज्ञव्रतादिकम्। जन्मजन्मनि भासित्वं सुखं भाग्यं यशः श्रियं
कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा। धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च
वेदवेदांगशास्त्रं च पुराणागमसंहिताः। सर्वं करगतं मन्ये तुलस्याभ्यर्चने हरेः
यथा गंगा पवित्रांगी सुरलोके विमोक्षदा। यथा भागीरथी पुण्या तथैवं तुलसी शिवा
किं च गंगाजले नैव किंच पुष्करसेवया। तुलसीदलमिश्रेण जलेनैव प्रमोद्यते
माधवः संमुखो यस्य जन्मजन्मसुधीमतः। तस्य श्रद्धा भवेछ्रुत्वा तुलस्या हरिमर्चितुम्
यो मंजरीदलैरेव तुलस्या विष्णुमर्चयेत्। तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते
तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनम्। तत्र ब्रह्मा च कमला सर्वदेवगणैः सह
तस्मात्तां संनिकृष्टे तु सदा देवीं प्रपूजयेत्। स्तोत्रमंत्रादिकं यद्वा सर्वमानंत्यमश्नुते
ये च प्रेताश्च कूश्मांडाः पिशाचा ब्रह्मराक्षसाः। भूतदैत्यादयस्तत्र पलायंते सदैव हि
अलक्ष्मीर्नाशिनी घूर्णा या डाकिन्यादि मातरः। सर्वाः संकोचितां यांति दृष्ट्वा तु तुलसीदलं
ब्रह्महत्यादयः पापव्याधयः पापसंभवाः। कुमंत्रिणा कृता ये च सर्वे नश्यंति तत्र वै
भूतले वापि तं येन हर्यर्थं तुलसीवनम्। कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम्
हरिलिंगेषु चान्येषु सालग्रामशिलासु च। तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत्
नंदंति पुरुषास्तस्य माधवार्थे क्षितौ तु यः। तुलसीं रोपयेद्धीरः स याति माधवालयम्
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्। धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत्
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ। तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च
उपदेशं दिशेदस्याः स्वयमाचरते पुनः
स याति परमं स्थानं माधवस्य निकेतनम्। हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत्
सर्वेषामपि देवानां देवीनां च समंततः। श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु। तुलसी सेविता येन तेन सर्वं तु सेवितम्