आगतं तं समारुह्य सचांडालपिशाचकाः। गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम्
स्कंद उवाच-। धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः। तद्भक्षिणः कथं स्वर्गं न गच्छंति नरादयः
ईश्वर उवाच- पूर्वं ते ज्ञानलोपाच्च न जानंति हिताहितम्। उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा
मत्वा च मोहिताः श्रेष्ठं प्रेतादंति सदैव हि। शकृच्छौचजलं वांतं बलिसूकरकुक्कुटैः
मृतके सूतके जप्यं न त्यक्तं येन केनचित्। तस्यान्नं च जलं प्रेताः खादंति तु सदैव हि
दुर्दांता गृहिणी यस्य शुचिसंयमवर्जिता। गुरुनिःसारिता दुष्टा संति प्रेताश्च तत्र वै
अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः। बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः
क्षणं च मंगलं नास्ति दुःखैर्देहयुता भृशम्। तेनैव विकृताकाराः सर्वभोगविवर्जिताः
नग्नका रोगसंतप्ता मृता रूक्षा मलीमसाः। एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः
तेन कर्मविपाकेन जायंते काममीदृशाः। पितृमातृगुरूणां च देवनिंदापराश्च ये
पाषंडाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि। गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः
इहलोके च ते प्रेताश्चांडालादिषु संभवाः। अंत्यजाः पतिताश्चैव पापरोगमृताश्च ये
अंत्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि। महापातकसंयुक्ता विवाहे च बहिष्कृताः
शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि। राजद्रोहकरा ये च पितॄणां द्रोहचिंतकाः
ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः। अमंत्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः
तथैव चांत्यजस्त्रीषु दुर्गतासु च संगताः। मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः
म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः। अनुवर्तंति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः
स्त्रियो यैश्च न रक्ष्यंते ते प्रेता नात्र संशयः। क्षुधासंतप्तदेहं तु श्रांतं विप्रं गृहागतम्
गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजंति ते। विक्रीणंति च वै गाश्च म्लेच्छेषु च गवाशिषु
प्रेतलोके सुखं स्थित्वा ते च यांत्यपुनर्भवम्। अशौचाभ्यंतरे ये च जाताश्च पशवो मृताः
चिरं प्रेताः पिशाचाश्च मृता जाताः पुनः पुनः। जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः
एकैकस्मिश्च संस्कारे प्रेतत्वं परिहीयते। स्नानसंध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः
आजन्मवर्जिताः पापास्ते प्रेताश्चापुनर्भवाः। भोजनोच्छिष्टपात्राणि यानि देहमलानि च
निपातयंति ये तीर्थे ते प्रेता नात्र संशयः। दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः
पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशम्। पतिं त्यक्त्वा च या नार्यो वसंति चेतरैर्जनैः
प्रेतलोके चिरं स्थित्वा जायंते चांत्ययोनिषु। पतिं च वंचयित्वा या विषयेंद्रियमोहिताः
मिष्टं चादंति याः पापास्तास्तु प्रेताश्चिरं भुवि। विण्मूत्रभक्षका ये च ब्रह्मस्व भक्षणे रताः
अभक्ष्यभक्षकाश्चान्ये ते प्रेताश्चापुनर्भवाः। बलाद्ये परवस्तूनि गृह्णंति न ददत्यपि
अतिथीनवमन्यंते प्रेता निरयमास्थिताः। तस्मादामलकीं भुक्त्वा स्नात्वा तस्य द्रवेण च १०० 1.60.
सर्वपापाद्विनिर्मुक्तो विष्णुलोके महीयते। तस्मात्सर्वप्रयत्नेन सेवयामलकीं शिवाम्