देवानां पूजने रक्ता न वै प्रेता भवंति ते। श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम्
पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति। व्रतैश्च विविधैः पूताः पद्माक्षधारणैस्तथा
जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति। धात्रीफलद्रवैः स्नात्वा नित्यं तद्भक्षणे रताः
तेन विष्णुं सुसंपूज्य न गछंति पिशाचताम्। प्रेता ऊचुः- सतां संदर्शनात्पुण्यमिति पौराणिका विदुः
तस्माद्वो दर्शनं जातं हितं नः कर्तुमर्हथ। प्रेतभावाद्यथामुक्तिः सर्वेषां नो भविष्यति
व्रतोपदेशकं धीरा युष्माकं शरणागताः। ततो दयालवः सर्वे तानूचुर्द्विजसत्तमाः
धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे। प्रेता ऊचुः। धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः
कथं तेषां फलानां च शक्ता वै भक्षणेधुना। द्विजा ऊचुः- अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम्
फलिष्यति परं लोकं तस्माद्गंतुं समर्हथ। अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः
समारुह्य फलं प्राप्य भक्षितं लीलया तदा। ततो देवालयात्तूर्णं रथं पीनसुशोभनम्
आगतं तं समारुह्य सचांडालपिशाचकाः। गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम्
स्कंद उवाच-। धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः। तद्भक्षिणः कथं स्वर्गं न गच्छंति नरादयः
ईश्वर उवाच- पूर्वं ते ज्ञानलोपाच्च न जानंति हिताहितम्। उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा
मत्वा च मोहिताः श्रेष्ठं प्रेतादंति सदैव हि। शकृच्छौचजलं वांतं बलिसूकरकुक्कुटैः
मृतके सूतके जप्यं न त्यक्तं येन केनचित्। तस्यान्नं च जलं प्रेताः खादंति तु सदैव हि
दुर्दांता गृहिणी यस्य शुचिसंयमवर्जिता। गुरुनिःसारिता दुष्टा संति प्रेताश्च तत्र वै
अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः। बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः
क्षणं च मंगलं नास्ति दुःखैर्देहयुता भृशम्। तेनैव विकृताकाराः सर्वभोगविवर्जिताः
नग्नका रोगसंतप्ता मृता रूक्षा मलीमसाः। एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः
तेन कर्मविपाकेन जायंते काममीदृशाः। पितृमातृगुरूणां च देवनिंदापराश्च ये
पाषंडाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि। गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः
इहलोके च ते प्रेताश्चांडालादिषु संभवाः। अंत्यजाः पतिताश्चैव पापरोगमृताश्च ये
अंत्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि। महापातकसंयुक्ता विवाहे च बहिष्कृताः
शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि। राजद्रोहकरा ये च पितॄणां द्रोहचिंतकाः
ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः। अमंत्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः
तथैव चांत्यजस्त्रीषु दुर्गतासु च संगताः। मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः
म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः। अनुवर्तंति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः
स्त्रियो यैश्च न रक्ष्यंते ते प्रेता नात्र संशयः। क्षुधासंतप्तदेहं तु श्रांतं विप्रं गृहागतम्
गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजंति ते। विक्रीणंति च वै गाश्च म्लेच्छेषु च गवाशिषु
प्रेतलोके सुखं स्थित्वा ते च यांत्यपुनर्भवम्। अशौचाभ्यंतरे ये च जाताश्च पशवो मृताः