क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्। दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम्
ततो दैवात्सवृक्षाग्रान्निपपात महीतले। वेदनागाढसंविद्धः पंचत्वमगमत्तदा
ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा। तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः
न शक्नुवंति चांडालं मृतं द्रष्टुं महाबलाः। अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्
ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्। ततस्ते तु समालोक्य गता मुनिगणान्प्रति
प्रेता ऊचुः- किमर्थं मुनयो धीराश्चांडालं पापकारिणम्। प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः
म्रियंते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः। साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः
सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजंतुभिः। जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः
पशुपक्षिहता ये च कारागारे गरे मृताः। आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः
गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः। पाषंडाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः
आशौचान्नस्य भोक्तारः प्रेतभोग्या न संशयः। ममायमिति भाषंतो नेतुं तं च न शक्नुमः
आदित्य इव दुष्प्रेक्ष्यः किंवा कस्य प्रभावतः। मुनय ऊचुः- अनेन भक्षितं प्रेताः पक्वं चामलकीफलम्
तत्संगं यांति तस्यैव फलानि प्रचुराणि च। तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवम्
वृक्षाग्रपतितस्याथ प्राणः स्नेहान्न च त्यजेत्। नायं चारेण सूर्यस्य न चान्ये पापकारिणः
धात्रीभक्षणमात्रेण पापात्पूतो व्रजेद्दिवम्। प्रेता ऊचुः- पृच्छामो वो ह्यविज्ञानान्न वयं निंदकाः क्वचित्
विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति। उच्यतां मुनिशार्दूला वो द्रुतं मनसि स्थितम्
यावद्द्विजा न घोषंति वेदमंत्रादिकल्पितम्। घोष्यंते यत्र वेदाश्च मंत्राणि विविधानि च
पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः। यज्ञहोमजपस्थानदेवतार्चनकर्मणाम्
पुरतो वै न तिष्ठामस्तस्माद्वृत्तं समुच्यताम्। किं वै कृत्वा प्रेतयोनिं लभंते हि नरा द्विजाः५० 1.60.
श्रोतुमिच्छामहे सम्यक्कथं वै विकृतं वपुः। द्विजा ऊचुः- शीतवातातपक्लेशैः क्षुत्पिपासाविशेषकैः
अन्यैरपि च दुःखैर्ये पीडिताः कूटसाक्षिणः। वधबंधप्रमीताश्च प्रेतास्ते निरयं गताः
छिद्रान्वेषपरा ये च द्विजानां कर्मघातिनः। तथैव च गुरूणां च ते प्रेताश्चापुनर्भवाः
दीयमाने द्विजाग्र्ये तु दातारं प्रतिविध्यति। चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते
परस्य वाऽत्मनो वा गां कृत्वा पीडनवाहने। न पालयंति ये मूढास्ते प्रेताः कर्मजा भुवि
हीनप्रतिज्ञाश्चासत्यास्तथा भग्नव्रता नराः। नलिनीदलभुक्ताश्च ते प्रेताः कर्मजा भुवि
विक्रीणन्ति सुतां शुद्धां स्त्रियं साध्वीमकंटकाम्। पितृव्यमातुलादेश्च ते प्रेताः कर्मजा भुवि
एते चान्ये च बहवः प्रेता जाताः स्वकर्मभिः। प्रेता ऊचुः- न भवंति कथं प्रेताः कर्मणा केन वा द्विजाः
हिताय वदनस्तूर्णं सर्वलोकहितं परम्। द्विजा ऊचुः- येन चैव कृतं स्नानं जले तीर्थस्य धीमता
नमस्कृतं परं लिगं न प्रेतो जायते नरः। एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः
पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजंति वै। वेदाक्षरप्रसूतैश्च स्तोत्रमंत्रादिभिस्तथा