धात्रीद्रवेण सततं यस्य केशाः सुरंजिताः। न पिबेत्स पुनर्मातुः स्तनं कश्चित्षडानन
धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेपि वा। वरदः संमुखो विष्णुः संतुष्टो भवति प्रियः
धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः। तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेत्
अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति। संतुष्टास्सर्वदेवाश्च न त्यजंति क्षणं मुदा
धात्रीफलेन नैवेद्यं यो ददाति महाधनम्। तस्य तुष्टो भवेद्विष्णुर्नान्यैः क्रतुशतैरपि
स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवम्। सोभीष्टफलमाप्नोति यद्वा मनसि वर्तते
तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु। सुवर्णशतसाहस्रं फलमेति नरोत्तमः
या गतिर्ज्ञानिनां स्कंद मुनीनां योगसेविनाम्। गतिं तां समवाप्नोति धात्रीसेवा रतो नरः
तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा। सा गतिर्लभ्यते पुंसां धात्रीफलसुसेवया
प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च। संमुखा वरदा स्नाने धात्रीफलनिषेवणे
ग्रहा दुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः। सर्वे न दुष्टतां यांतिधात्रीफल सुसेवनात्
सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम्। सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत
तस्माद्रविदिने तात सप्तम्यां च विशेषतः। धात्रीफलानि सततं दूरतः परिवर्जयेत्
यस्तु स्नाति तथाश्नाति धात्रीं च रविवासरे। आयुर्वित्तं कलत्रं च सर्वं तस्य विनश्यति
संक्रान्तौ च भृगोर्वारे षष्ठ्यां प्रतिपिदि(?) ध्रुवम्। नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत्
नासिकाकर्णतुंडेषु मृतस्य चिकुरेषु वा। तिष्ठेद्धात्रीफलं यस्य स याति विष्णुमंदिरम्
धात्रीसंपर्कमात्रेण मृतो यात्यच्युतालयम्। सर्वपापक्षयस्तस्य स्वर्गं याति रथेन तु
धात्रीद्रवं नरो लिप्त्वा यस्तु स्नानं समाचरेत्। पदेपदेश्वमेधस्य फलं प्राप्नोति धार्मिकः
अस्य दर्शनमात्रेण ये वै पापिष्ठजंतवः। सर्वे ते प्रपलायंते ग्रहा दुष्टाश्च दारुणाः
पुरैकः पुल्कसः स्कंद मृगयार्थं वनं गतः। मृगपक्षिगणान्हत्वा तृषया परिपीडितः
क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्। दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम्
ततो दैवात्सवृक्षाग्रान्निपपात महीतले। वेदनागाढसंविद्धः पंचत्वमगमत्तदा
ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा। तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः
न शक्नुवंति चांडालं मृतं द्रष्टुं महाबलाः। अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्
ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्। ततस्ते तु समालोक्य गता मुनिगणान्प्रति
प्रेता ऊचुः- किमर्थं मुनयो धीराश्चांडालं पापकारिणम्। प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः
म्रियंते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः। साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः
सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजंतुभिः। जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः
पशुपक्षिहता ये च कारागारे गरे मृताः। आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः
गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः। पाषंडाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः