सिध्यंति तस्य वै सर्वे भाग्ययुक्तस्य षण्मुख। मातृपितृ स्वसृ भ्रातृ गुरून्वाथ निहत्य च
मुच्यते सर्वपापेभ्यो त्रयोदशास्य धारणात्। अक्षयं लभते स्वर्गं यथा देवो महेश्वरः
चतुर्दशमुखं वत्स रुद्राक्षं यदि धारयेत्। सततं मूर्ध्नि बाहौ वा शक्तिपिंडं शिवस्य च
किं पुनर्बहुनोक्तेन वर्णितेन पुनः पुनः। पूज्यते सततं देवैः प्राप्यते पुण्यगौरवात्
कार्तिकेय उवाच-। भगवन्श्रोतुमिच्छामि वक्त्रे वक्त्रे यथाविधि। न्यसनं केन मंत्रेण धारणं वा कथं वद
ईश्वर उवाच-। शृणु षण्मुख तत्त्वेन वक्त्रे वक्त्रे यथाविधि। अमंत्रोच्चारणादेव गुणा ह्येते प्रकीर्तिताः
यः पुनर्मंत्रसंयुक्तं धारयेद्भुवि मानवः। गुणास्तस्य महत्त्वं च कथितुं नैव शक्यते
इदानीं मंत्रा दिश्यंते ॐ रुद्र एकवक्त्रस्य। ॐ खं द्विवक्त्रस्य ॐ वुं त्रिवक्त्रस्य। ॐ ह्रीं चतुर्वक्त्रस्य ॐ ह्रां पंचवक्त्रस्य। ॐ ह्रूँ षड्वक्त्रस्य ॐ ह्रः सप्तवक्त्रस्य। ॐ कं अष्टवक्त्रस्य ॐ जूं नववक्त्रस्य। ॐ क्षं दशवक्त्रस्य ॐ श्रीं एकादशवक्त्रस्य। ॐ ह्रीं द्वादशवक्त्रस्य ॐ क्षौं त्रयोदशवक्त्रस्य। ॐ न्रां चतुर्दशवक्त्रस्य। एवं मंत्रा यथाक्रमं न्यस्तव्याः। शिरस्युरसि मालां च गृहीत्वा यो व्रजेन्नरः। पदेपदेश्वमेधस्य फलमाप्नोति नान्यथा२०० 1.59.
सर्वेषामपि वक्त्राणां धारणे मत्समो भवेत्। तस्मात्सर्वप्रयत्नेन रुद्राक्षं पुत्र धारय
धारयित्वा तु रुद्राक्षं म्रियते यः क्षितौ नरः। स याति मत्पुरं रम्यं सर्वदेवैः प्रपूजितः
मरुदेशे पुरा वत्स वाणिज्याय किल स्थले। गच्छन्वणिक्सुतस्तात तरौ प्रेता प्रपीडितः
नरीनर्तिततः प्रेता द्विजेन परमैक्षि च। का त्वं नृत्यसि दीनासि संवृता जीर्णवाससा
अथ सा च द्विजं प्राह देवदूतान्मया श्रुतम्। अस्य चारु नरस्यैव वज्रपातेन सांप्रतम्
निश्चितं निधनं विप्र मद्भर्त्ता तु भविष्यति। एतस्मिन्नंतरे नाकाद्वज्रं तस्यशिरोपरि
अपतत्स पपातोर्व्यां रुद्राक्षस्यार्धखंडके। ततो मम पुरात्पुत्र विमानं चापतद्द्रुतम्
समारुह्य ततः श्रीमांस्तत्र तिष्ठति संचिरम्। ममांशकं समासाद्य ईश्वरः कौ धनी भवेत्
एवं रुद्राक्षखंडे च मृतस्य सुगतिः सुत। ज्ञानेन धारिणः पुंसः फलं वक्तुं न शक्नुमः
स शैवो वा भवेच्छाक्तो गाणपत्योथ सौरकः। यो दधाति मृतो मालामेकं रुद्राक्षकं तु वा
यः पठेत्पाठयेद्वापि श्रावयेच्छृणुतेपि वा। सर्वपापात्प्रमुक्तात्मा सुखं स्वर्गं लभेत्क्रमात्
षष्ठितमोऽध्यायः। स्कंदउवाच- अपरस्यापि पृच्छामि फलस्य पूततां तरोः। सर्वलोकहितार्थाय वद नो जगदीश्वर
ईश्वर उवाच- धात्रीफलं परं पूतं सर्वलोकेषु विश्रुतम्। यस्य रोपान्नरो नारी मुच्यते जन्मबंधनात्
पावनं वासुदेवस्य फलं प्रीतिकरं शुभम्। अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषात्
भक्षणे च भवेदायुः पाने वै धर्मसंचयः। अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयात्
यस्मिन्गृहे महासेन धात्री तिष्ठति सर्वदा। तस्मिन्गृहे न गच्छंति प्रेता दैतेय राक्षसाः
न गंगा न गया चैव न काशी न च पुष्करम्। एकैव हि नृणां धात्री संप्राप्ते हरिवासरे
एकादश्यां पक्षयुगे धात्रीस्नानं करोति यः। सर्वपापक्षयं यांति विष्णुलोके महीयते
धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च। नियतं पारणे विष्णोः स्नानमात्रे हरेर्दिने
संयते पारणे चैव धात्र्येकस्पर्शने नरः। भुक्त्वा तु लंघयेद्यस्तु एकादश्यां सितासिते
एकेनैवोपवासेन कृतेन तु षडानन। सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः
अक्षयं लभते स्वर्गं विष्णुसायुज्यमाव्रजेत्। तस्मात्सर्वप्रयत्नेन धात्रीव्रतं समाचर