तस्मात्सर्वप्रयत्नेन पंचवक्त्रं तु धारयेत्। षड्वक्त्रं कार्तिकेयं तु धारयन्दक्षिणे भुजे
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः। स्कंदस्य सदृशः शूरः कल्पांते समुपस्थिते
नात्र पराजयं चैति गुणानामाकरो भुवि। कुमारत्वमवाप्नोति यथा गौरीशनंदनः
ब्राह्मणो भूपपूज्यश्च क्षत्रियो लभते जयम्। वैश्याः शूद्रादयो वर्णाः सदैश्वर्यप्रपूरिताः। तस्यैव वरदा गौरी मातेव सुलभा भवेत्
ततो भुजबलादेव विश्वतेजा भवेन्नरः। वाग्मी धीरस्सभायां च नृपवेश्मनि संसदि
न च कातरतामेति नैव भंगो भवेद्ध्रुवम्
एतान्यन्यानि सर्वाणि षड्वक्त्रस्यैव धारणात्। सप्तवक्त्रो महासेनस्त्वनंतो नाम नागराट्
अस्य प्रत्येक वक्त्रे तु प्रतिनागा व्यवस्थिताः। अनंतः कर्कटश्चैव पुंडरीकोथ तक्षकः
विषोल्बणश्च कारीषः शंखचूडश्च सप्तमः। एते नागा महावीर्याः सप्तवक्त्रे व्यवस्थिताः
अस्य धारणमात्रे तु विषं न क्रमते तनौ। हरश्च परमप्रीतो भवेन्नागेश्वरे यथा
प्रीत्यास्या सर्वपापानि क्षयं यांति दिनेदिने। ब्रह्महत्या सुरापानं स्तेयादि गुरुतल्पजम्
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्। देवस्य सदृशं भोज्यं त्रैलोक्ये निश्चितं लभेत्
अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः। अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे
जन्मजन्म न मूर्खः स्यान्नातुरो न च नष्टधीः। अविघ्नं सर्वकार्येषु तस्यैव सततं भवेत्
नैपुण्यं लिपिकार्येषु महाकार्येषु कौशलम्। सर्वारंभादिकार्येषु क्षमंतस्य दिने दिने
अर्धकूटं तुलाकूटं सर्वकूटं तथैव च। शिश्नोदरकरेणैव संस्पृशेद्वा गुरुस्त्रियम्
एवमादीनि सर्वाणि हंति पापानि सर्वथा। अक्षयं त्रिदिवं भुक्त्वा मुक्तो याति परां गतिम्
गुणान्येतानि सर्वाणि अष्टवक्त्रस्य धारणात्। नवास्यं भैरवं प्रोक्तं धारयेद्यस्तु बाहुतः
कपिलं मुक्तिदं धृत्वा ममतुल्य बलो भवेत्। लक्षकोटिसहस्राणि ब्रह्महत्याः करोति यः
ताः सर्वा दहते शीघ्रं नववक्त्रस्य धारणात्। सुरलोके सदा देवैः पूजितो मघवान्यथा
हरवद्वरवेश्मस्थो गणेशो नात्र संशयः। पन्नगाश्च विनश्यंति दशवक्त्रस्य धारणात्
वक्त्रे चैकादशे वत्स रुद्राश्चैकादश स्मृताः। शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु
अश्वमेधसहस्राणि यज्ञकोटिशतानि च। गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं शीघ्रमाप्नोति वक्त्रैकादश धारणात्। हरस्य सदृशो लोके पुनर्जन्म न विद्यते
रुद्राक्षं द्वादशास्यं यः कंठदेशे तु धारयेत्। आदित्यस्तुष्यते नित्यं द्वादशास्ये व्यवस्थितः
गोमेधं नरमेधं च कृत्वा यत्फलमश्नुते। तत्फलं शीघ्रमाप्नोति वज्रादेश्च निवारणम्
नैव वह्नेर्भयं चैव न च व्याधिः प्रवर्तते। अर्थलाभं सुखं भुंक्त ईश्वरो न दरिद्रता
हस्त्यश्वनरमार्जार मूषकाञ्छशकांस्तथा। व्यालदंष्ट्रि सृगालादीन्हत्वा व्याघातयत्यपि
मुच्यते नात्र संदेहो वक्त्रद्वादश धारणात्। वक्त्र त्रयोदशो रुद्रो रुद्राक्षः प्राप्यते यदि
शंतमः स तु विज्ञेयः सर्वकामफलप्रदः। सुधारसायनं चैव धातुवादश्च पादुका