तत्फलं लभते धीरः स्वर्गं चानंतमश्नुते। त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भुवि
निचितं दुष्कृतं सर्वं दहेज्जन्मनि जन्मनि। न चोदरे भवेद्रोगो न चैवापटुतां व्रजेत्
पराजयं न लभते नाग्निना दह्यते गृहम्। एतान्यन्यानि सर्वाणि वज्रादेश्च निवारणम्
नाशुभं विद्यते किंचित्त्रिवक्त्रस्य तु धारणात्। चतुर्वक्त्रः स्वयं ब्रह्मा यस्य देहे प्रतिष्ठति
स भवेत्सर्वशास्त्रज्ञो द्विजो वेदविदां वरः। सर्वधर्मार्थतत्त्वज्ञः स्मार्तः पौराणिको भवेत्
यत्पापं नरहत्यायां बहुसत्त्वेषु वेश्मसु। तत्सर्वं दहते शीघ्रं चतुर्वक्त्रस्य धारणात्
महेशस्तुष्यते नित्यं भूतानामधिपो भवेत्। सद्योजातस्तथेशानस्तत्पुरुषोऽघोर एव च
वामदेव इमे देवा वक्त्रैः पंचभिराश्रिताः। अतः सर्वत्र भूयिष्ठाः पंचवक्त्रो धरातले
रुद्रस्यात्मजरूपोयं तस्मात्तं धारयेद्बुधः। कल्पकोटिसहस्राणि कल्पकोटिशतानि च
तावत्कालं शिवस्याग्रे पूजनीयः सुरासुरैः। सार्वभौमो भवेद्भूमौ शर्वतेजाः शिवालये
तस्मात्सर्वप्रयत्नेन पंचवक्त्रं तु धारयेत्। षड्वक्त्रं कार्तिकेयं तु धारयन्दक्षिणे भुजे
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः। स्कंदस्य सदृशः शूरः कल्पांते समुपस्थिते
नात्र पराजयं चैति गुणानामाकरो भुवि। कुमारत्वमवाप्नोति यथा गौरीशनंदनः
ब्राह्मणो भूपपूज्यश्च क्षत्रियो लभते जयम्। वैश्याः शूद्रादयो वर्णाः सदैश्वर्यप्रपूरिताः। तस्यैव वरदा गौरी मातेव सुलभा भवेत्
ततो भुजबलादेव विश्वतेजा भवेन्नरः। वाग्मी धीरस्सभायां च नृपवेश्मनि संसदि
न च कातरतामेति नैव भंगो भवेद्ध्रुवम्
एतान्यन्यानि सर्वाणि षड्वक्त्रस्यैव धारणात्। सप्तवक्त्रो महासेनस्त्वनंतो नाम नागराट्
अस्य प्रत्येक वक्त्रे तु प्रतिनागा व्यवस्थिताः। अनंतः कर्कटश्चैव पुंडरीकोथ तक्षकः
विषोल्बणश्च कारीषः शंखचूडश्च सप्तमः। एते नागा महावीर्याः सप्तवक्त्रे व्यवस्थिताः
अस्य धारणमात्रे तु विषं न क्रमते तनौ। हरश्च परमप्रीतो भवेन्नागेश्वरे यथा
प्रीत्यास्या सर्वपापानि क्षयं यांति दिनेदिने। ब्रह्महत्या सुरापानं स्तेयादि गुरुतल्पजम्
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्। देवस्य सदृशं भोज्यं त्रैलोक्ये निश्चितं लभेत्
अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः। अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे
जन्मजन्म न मूर्खः स्यान्नातुरो न च नष्टधीः। अविघ्नं सर्वकार्येषु तस्यैव सततं भवेत्
नैपुण्यं लिपिकार्येषु महाकार्येषु कौशलम्। सर्वारंभादिकार्येषु क्षमंतस्य दिने दिने
अर्धकूटं तुलाकूटं सर्वकूटं तथैव च। शिश्नोदरकरेणैव संस्पृशेद्वा गुरुस्त्रियम्
एवमादीनि सर्वाणि हंति पापानि सर्वथा। अक्षयं त्रिदिवं भुक्त्वा मुक्तो याति परां गतिम्
गुणान्येतानि सर्वाणि अष्टवक्त्रस्य धारणात्। नवास्यं भैरवं प्रोक्तं धारयेद्यस्तु बाहुतः
कपिलं मुक्तिदं धृत्वा ममतुल्य बलो भवेत्। लक्षकोटिसहस्राणि ब्रह्महत्याः करोति यः
ताः सर्वा दहते शीघ्रं नववक्त्रस्य धारणात्। सुरलोके सदा देवैः पूजितो मघवान्यथा