ततोऽजगवमासज्य बाणमंतकसन्निभम्। धृत्वा तं च जघानाथ दृष्टं दिव्येन चक्षुषा
स पपात महीपृष्ठे महोल्केव च्युतो दिवः। घटनव्याकुलाद्रुद्रात्पतिताः स्वेदबिंदवः
तत्राश्रुबिंदुतो जातो महारुद्राक्षकः क्षितौ। अस्यैव च फलं जीवा न जानंत्यतिगुह्यतः
ततः कैलासशिखरे देवदेवं महेश्वरम्। प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्
रुद्राक्षस्य फलं नाथ ज्ञातुमिच्छामि तत्त्वतः। जप्येथ धारणे चैव दर्शने स्पर्शनेपि वा
ईश्वर उवाच-। लक्षं तु दर्शनात्पुण्यं कोटिर्वै स्पर्शनेन च। दशकोटिफलं पुण्यं धारणाल्लभते नरः
लक्षकोटिसहस्राणि लक्षकोटिशतानि च। जप्त्वास्य लभते पुण्यं नात्र कार्या विचारणा
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः। मुच्यते सर्वपापेभ्यो रुद्राक्षधारणेन वै
कंठे रुद्राक्षमादाय श्वापदो म्रियते यदि। सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः
ध्यानधारणहीनोपि रुद्राक्षं यदि धारयेत्। सर्वपापविनिर्मुक्तः स याति परमां गतिम्
कार्तिकेय उवाच-। एकवक्त्रं द्वित्रिचतुःपंचषड्वक्त्रमेव च। सप्ताष्टनववक्त्रं च दशैकादशवक्त्रकम्
रुद्राक्षं द्वादशास्यं च त्रयोदशमुखं तथा। चतुर्दशास्यसंयुक्तं स्वयमुक्तं च शंकरम्
तेषां च तन्मुखानां च देवताः काश्च तद्वद। गुणो वा कीदृशस्तेषां दोषो वा जगदीश्वर
यदि मेनुग्रहोवास्ति कथयस्व यथार्थतः। ईश्वर उवाच-। एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति
तस्मात्तु धारयेद्देहे सर्वपापक्षयाय च। शिवलोकं स गच्छेच्च शिवेन सह मोदते
महतापुण्ययोगेन हरानुग्रहकारणात्। एकवक्त्रं लभेन्मर्त्यो कैलासं च षडानन
देवदेवो द्विवक्त्रं च यस्तु धारयते नरः। सर्वपापक्षयं याति यद्गुह्यंगोवधादिकम्
स्वर्गं चाक्षयमाप्नोति द्विवक्त्रधारणात्ततः। त्रिवक्त्रमनलस्साक्षाद्यस्यदेहे प्रतिष्ठति१५० 1.59.
तस्य जन्मार्जितं पापं दहत्यग्निरिवेंधनम्। स्त्रीहत्या ब्रह्महत्याभ्यां बहूनां चैव हत्यया
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्। यत्फलं वह्निपूजायामग्निकार्ये घृताहुतौ
तत्फलं लभते धीरः स्वर्गं चानंतमश्नुते। त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भुवि
निचितं दुष्कृतं सर्वं दहेज्जन्मनि जन्मनि। न चोदरे भवेद्रोगो न चैवापटुतां व्रजेत्
पराजयं न लभते नाग्निना दह्यते गृहम्। एतान्यन्यानि सर्वाणि वज्रादेश्च निवारणम्
नाशुभं विद्यते किंचित्त्रिवक्त्रस्य तु धारणात्। चतुर्वक्त्रः स्वयं ब्रह्मा यस्य देहे प्रतिष्ठति
स भवेत्सर्वशास्त्रज्ञो द्विजो वेदविदां वरः। सर्वधर्मार्थतत्त्वज्ञः स्मार्तः पौराणिको भवेत्
यत्पापं नरहत्यायां बहुसत्त्वेषु वेश्मसु। तत्सर्वं दहते शीघ्रं चतुर्वक्त्रस्य धारणात्
महेशस्तुष्यते नित्यं भूतानामधिपो भवेत्। सद्योजातस्तथेशानस्तत्पुरुषोऽघोर एव च
वामदेव इमे देवा वक्त्रैः पंचभिराश्रिताः। अतः सर्वत्र भूयिष्ठाः पंचवक्त्रो धरातले
रुद्रस्यात्मजरूपोयं तस्मात्तं धारयेद्बुधः। कल्पकोटिसहस्राणि कल्पकोटिशतानि च
तावत्कालं शिवस्याग्रे पूजनीयः सुरासुरैः। सार्वभौमो भवेद्भूमौ शर्वतेजाः शिवालये