संख्यातं यज्जपेन्मंत्रमसंख्यातं च निष्फलम्। सर्वेषामेव देवानां जपेन्मंत्रं स्वमालया
प्रयतः सकले तीर्थे कोटिकोटिगुणं भवेत्। शुद्धायामेव भूम्यां तु मेध्यके वृक्षमूलके
गोष्ठे चतुष्पथागारे विष्णोर्मंत्रं शिवस्य च। गणपतेश्च सूरस्य लिंगेनंतफलं लभेत्
शून्यागारे शवस्याग्रे श्मशाने च चतुष्पथे। देवीमंत्रं जपेद्यस्तु सद्यस्सिध्यति साधकः
यावच्चावैदिकं मंत्रं पौराणं चागमोद्भवम्। सर्वं रुद्राक्षमालायामीप्सितेष्टार्थदायकम्
रुद्राक्षस्रवजं शुद्धं जलं शिरसि धारयेत्। सर्वस्मात्कल्मषात्पूतः पुण्यं भवति चाक्षयम्
रुद्राक्षस्य च प्रत्येकं बीजं प्रत्येक निर्जरं। धारयेद्यस्तनौ मर्त्यः सुराणां सत्तमो भवेत्
द्विजा ऊचुः- रुद्राक्षस्तु कुतो जातः कुतो वा मेध्यतां गतः। किमर्थं स्थावरो भूमौ केनैव च प्रचारितः
व्यास उवाच- पुरा कृतयुगे विप्रास्त्रिपुरो नाम दानवः। सुराणां च वधं कृत्वा अंतरिक्षपुरे हि सः
प्रणाशे सर्वलोकानां स्थिरो ब्रह्मवरेण च। शुश्राव शंकरो भीमं देवैरीशो निवेदितम्
ततोऽजगवमासज्य बाणमंतकसन्निभम्। धृत्वा तं च जघानाथ दृष्टं दिव्येन चक्षुषा
स पपात महीपृष्ठे महोल्केव च्युतो दिवः। घटनव्याकुलाद्रुद्रात्पतिताः स्वेदबिंदवः
तत्राश्रुबिंदुतो जातो महारुद्राक्षकः क्षितौ। अस्यैव च फलं जीवा न जानंत्यतिगुह्यतः
ततः कैलासशिखरे देवदेवं महेश्वरम्। प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्
रुद्राक्षस्य फलं नाथ ज्ञातुमिच्छामि तत्त्वतः। जप्येथ धारणे चैव दर्शने स्पर्शनेपि वा
ईश्वर उवाच-। लक्षं तु दर्शनात्पुण्यं कोटिर्वै स्पर्शनेन च। दशकोटिफलं पुण्यं धारणाल्लभते नरः
लक्षकोटिसहस्राणि लक्षकोटिशतानि च। जप्त्वास्य लभते पुण्यं नात्र कार्या विचारणा
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः। मुच्यते सर्वपापेभ्यो रुद्राक्षधारणेन वै
कंठे रुद्राक्षमादाय श्वापदो म्रियते यदि। सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः
ध्यानधारणहीनोपि रुद्राक्षं यदि धारयेत्। सर्वपापविनिर्मुक्तः स याति परमां गतिम्
कार्तिकेय उवाच-। एकवक्त्रं द्वित्रिचतुःपंचषड्वक्त्रमेव च। सप्ताष्टनववक्त्रं च दशैकादशवक्त्रकम्
रुद्राक्षं द्वादशास्यं च त्रयोदशमुखं तथा। चतुर्दशास्यसंयुक्तं स्वयमुक्तं च शंकरम्
तेषां च तन्मुखानां च देवताः काश्च तद्वद। गुणो वा कीदृशस्तेषां दोषो वा जगदीश्वर
यदि मेनुग्रहोवास्ति कथयस्व यथार्थतः। ईश्वर उवाच-। एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति
तस्मात्तु धारयेद्देहे सर्वपापक्षयाय च। शिवलोकं स गच्छेच्च शिवेन सह मोदते
महतापुण्ययोगेन हरानुग्रहकारणात्। एकवक्त्रं लभेन्मर्त्यो कैलासं च षडानन
देवदेवो द्विवक्त्रं च यस्तु धारयते नरः। सर्वपापक्षयं याति यद्गुह्यंगोवधादिकम्
स्वर्गं चाक्षयमाप्नोति द्विवक्त्रधारणात्ततः। त्रिवक्त्रमनलस्साक्षाद्यस्यदेहे प्रतिष्ठति१५० 1.59.
तस्य जन्मार्जितं पापं दहत्यग्निरिवेंधनम्। स्त्रीहत्या ब्रह्महत्याभ्यां बहूनां चैव हत्यया
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्। यत्फलं वह्निपूजायामग्निकार्ये घृताहुतौ