मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति ये । वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः
मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिने । स याति ह्यंधतामिस्रे निरयं मम घातकः
मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते । या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा
यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः । शालग्रामशिलायां तु सदा पुत्र वसाम्यहम्
दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः । पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम्
तत्फलं कोटिगुणितं शालग्रामशिलार्चनात् । पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः
न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् । शालग्रामशिलाग्रे तु यः करोति ममार्चनम्
तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम् । किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः
शालग्रामशिलाबिंबं नार्चितं यदि पुत्रक । अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम्
शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम् । भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत्
भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् । पादोदकेन देवस्य हत्याकोटिसमन्विताः
शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हि । यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत्
द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दश । ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत्
पितामहा युगान्यष्टौ भवत्यमृतभोजिनः । संसारे दुःखकांतारे निमज्ज्यंते नराधमाः
वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः । स्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः
मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताः । मल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः
शालग्रामशिलायां तु एकस्यामिह तद्भवेत् । द्वादशैव शिला यो वै शालग्रामसमुद्भवाः
अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे । कोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे
काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् । किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः
नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहते । तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक
कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम् । शालग्रामशिलारूपी यत्र तिष्ठति केशवः
तत्र देवासुरा यक्षा भुवनानि चतुर्दश
सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत् । तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ
शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः । वसंति पितरस्तस्य न संख्या तत्र विद्यते
ये पिबंति नरा भक्त्या शालग्रामशिलाजलम् । पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः । चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः
यः करोति तडागे तु प्रतिमां जलशायिनीम् । कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः
विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह । प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक
फलप्रमाणं नैवास्तिशालग्रामशिलार्चन । यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम्
विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः । गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने