शिवदासीं ततो गत्वा शिवस्व हरणे तथा। भक्षणादन्नपानानान्नरो दुर्गतिमाप्नुयात्
अतो देवलविप्रो यो नरकान्न निवर्तते। तस्माद्वेश्याजनानां च दौष्ट्यमेव हितं भवेत्
अतस्तु गणिकां स्पृष्ट्वा नरः स्नानाद्विशुध्यति। मलिनां दुर्गतिं याति बहुपूरुषसंश्रयात्
वेश्या तपस्विनी या च देवार्चनरता सदा। पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुते
गणिकां मातृवद्यस्तु सदासन्नां प्रपश्यति। देववत्सुरलोकेषु निखिलं भोगमश्नुते
सुरासुरनराणां च वंदनीयो यथा हरिः। तथार्होयं सर्वलोके सर्वभूतैकपावनः
देवदासः सदा यस्तु देवकृत्येषु लोलुपः। स च गच्छति लोकेशो देवलोके महीयते
एतेषामेव लिंगानि कारयित्वा च मंडपम्। शक्त्या यं लभते नाकं कालस्य निश्चयं शृणु
हायनैकं तृणेनैव शरकांडेन तच्छतम्। अयुतं त्वन्यकाष्ठेन लक्षं खादिरदारुणा१०० 1.59.
कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः। तस्मात्सर्वप्रयत्नेन मंडपं कारयेद्बुधः
यावत्कालं वसेत्स्वर्गे नरो मंडपकारकः। तावत्कालं च हरणे नरो दुर्गतिमाप्नुयात्
जनानां निचये रम्ये वस्तूनां क्रयविक्रये। आश्रये चाध्वगानां च नदीनद समागमे
देवानां मंडपं कृत्वा यत्फलं लभते नरः। तत्फलं समवाप्नोति द्विगुणं विप्रमंदिरे
अनाथस्य च दीनस्य श्रोत्रियस्य विशेषतः। कारयित्वा गृहं रम्यं नरः स्वर्गान्न हीयते
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्। अक्षयं लभते स्वर्गं प्रासादादेः फलं लभेत्
धनिनां चेश्वराणां च तथा पुण्यवतां पुनः। पाठयित्वा पठित्वा तु नरः स्वर्गान्न हीयते
देवानां दासदासीनां सदा देवालयेषु च। पठेद्यस्तु सदा विप्रो मोक्षमार्गं स गच्छति
नृपाणामीश्वराणां च धनिनां गुणिनां पुरः। पठित्वा मोक्षमाप्नोति श्रवणात्तत्फलं लभेत्
द्विजा ऊचुः- सामान्येकः परः पुण्यो मर्त्यलोके द्विजोत्तम। सुलभो मर्त्यपूज्यस्तु मुनीनां च तपस्विनाम्
चातुर्वर्ण्याश्रमाणां च पापपुण्यवतां नृणाम्। गुणागुणवतां चैव वर्णावर्णवतां तथा
व्यास उवाच- सर्वेषामेव भूतानां रुद्राक्षेण युतो वरः। दर्शनाद्यस्य लोकानां पापराशिः प्रलीयते
स्पर्शनाद्दिवमश्नाति धाराणाद्रौद्रतां व्रजेत्। शिरस्युरसि बाहौ च रुद्राक्षं धारयेत्तु यः
स चेशानसमो लोके मखे सर्वत्र गोचरः। यत्र तिष्ठत्यसौ विप्रस्स देशः पुण्यवान्भवेत्
तं दृष्ट्वाप्यथवा स्पृष्ट्वा नरः पूयेत कल्मषात्। यज्जप्यं तर्पणं दानं स्नानमर्चा प्रदक्षिणम्
यत्किंचित्कुरुते पुण्यं निखिलं तदनंतकम्। तीर्थानां च महत्तीर्थं रुद्राक्षस्य फलं द्विजाः
अस्यैव धारणाद्देही पापात्पूतोऽति पुण्यभाक्। गृहीत्वा चाक्षमालां च ब्रह्मग्रंथियुतां शिवाम्
यज्जप्तं च कृतं दानं स्तोत्रं मंत्रं सुरार्चनम्। सर्वं चाक्षयतामेति पापं च क्षयमाव्रजेत्
मालाया लक्षणं ब्रूमः श्रूयतां द्विजसत्तमाः। तस्यास्तु लक्षणं ज्ञात्वा शैवमार्गं प्रलप्स्यथ११९ तु. वराहपुराणम् [https://sa.wikisource.org/s/18ga १२८.५४](गणान्तिका)। निर्योनिकीटविद्धं च भग्नलिगं यथाक्रमम्। अन्योन्यं बीजलग्नं च मालायां परिवर्जयेत्
स्वयं च ग्रथिता या च श्लथान्योन्य प्रसज्जिता। शूद्रादिग्रथिताऽशुद्धा दूरात्तां परिवर्जयेत्
मध्यमालग्नकं बीजं जप्तव्यं च यथाक्रमम्। हस्तसंभ्रमणेनैव मेर्वामर्शं पुनः पुनः