शक्त्या स्वर्णप्रदानेन स्वर्गे पूज्यो भवेन्नरः। दशयोजनविस्तीर्णे मंडपे रूपभाग्भवेत्
सुवर्णं रत्नसंयुक्तं दत्त्वा दशगुणं लभेत्। वज्रवैडूर्यगारुत्म माणिक्यादीननर्घतः
दत्वा लिंगे विधानाच्च ब्राह्मणे वा यशस्विनि। शतयोजनविस्तीर्णमंडलेधिपतिर्भवेत्
तथैव भुवि जातोपि सर्वलोकप्ररंजनः। सुरभिद्रव्यदानेन वावदूकश्च सुंदरः
रक्तामृतसुकंठश्च पूगदानान्नरो भवेत्। वरदासीप्रदानेन नरः कल्पं वसेद्दिवि
वरदासी प्रदानेन उर्व्यां जातो धनेश्वरः। तथैव भृत्यदानेन बहुभृत्यो भवेद्दिवि
धरायामक्षयाऋद्धिर्जन्मजन्मसु जायते। सर्वतूर्यप्रदानेन गुणवान्लोकसंमतः
नृत्यगीतादिशास्त्रेण गंधर्वाणां पतिर्भवेत्। दासीदासयुतः स्वर्गे धनैः स्त्रीभिर्वरैर्युतः
तथैव गोप्रदानेन तावत्कालं वसेद्दिवि। लिंगे दुग्धप्रदानाच्च नरः कल्पं वसेद्दिवि
दध्ना स्नानेन द्विगुणं घृतेन तु शताधिकम्। अन्नं षड्रससंयुक्तं दत्वा क्षितिपतिर्भवेत्
तथैव पायसं दत्वा मुनीनां प्रवरो भुवि। हविष्यान्नं मुदा दत्वा वेदशास्त्रार्थपारगः
निरामिषप्रदानाच्च ब्रह्मचारी व्रती भवेत्। मधुदानाच्च सौभाग्यं गुडेन लवणेन च
शर्करादिभिर्लावण्यं सर्वलोकेषु गीयते। देवानां शंभुलिंगानामर्चां कृत्वा विधानतः
अनुक्रमेण स्वर्गादौ लोकानां स पतिर्भवेत्। लोकानां च हितार्थाय देवास्तिष्ठंति संमुखाः
सकृत्प्रदक्षिणां कृत्वा शंभुलिंगेषु पंडितः। दिव्यं वर्षशतं पूर्णं स्वर्गमेति नरोत्तमः
एवमेव क्रमेणैव नमस्कारैः स्वयंभुवः। लोकवंद्यो व्रजेत्स्वर्गं तस्मान्नित्यं समाचरेत्
लिंगरूपस्य देवस्य यो धनं हरते नरः। स च रौरवमासाद्य हरणात्कीटतां व्रजेत्
दातुः पूजां च लिंगार्थे हरेश्चाप्याददाति यः। कुलकोटिसहस्रेण नरकान्न निवर्तते
जलपुष्पादिदीपार्थे वसु चान्यद्गृहीतवान्। पश्चान्न दीयते लोभादक्षयं नरकं व्रजेत्
दासीं हृत्वा तु लिंगस्य नरकान्न निवर्तते। कामार्तो मातरं गच्छेन्न गच्छेच्छिवचेटिकाम्
शिवदासीं ततो गत्वा शिवस्व हरणे तथा। भक्षणादन्नपानानान्नरो दुर्गतिमाप्नुयात्
अतो देवलविप्रो यो नरकान्न निवर्तते। तस्माद्वेश्याजनानां च दौष्ट्यमेव हितं भवेत्
अतस्तु गणिकां स्पृष्ट्वा नरः स्नानाद्विशुध्यति। मलिनां दुर्गतिं याति बहुपूरुषसंश्रयात्
वेश्या तपस्विनी या च देवार्चनरता सदा। पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुते
गणिकां मातृवद्यस्तु सदासन्नां प्रपश्यति। देववत्सुरलोकेषु निखिलं भोगमश्नुते
सुरासुरनराणां च वंदनीयो यथा हरिः। तथार्होयं सर्वलोके सर्वभूतैकपावनः
देवदासः सदा यस्तु देवकृत्येषु लोलुपः। स च गच्छति लोकेशो देवलोके महीयते
एतेषामेव लिंगानि कारयित्वा च मंडपम्। शक्त्या यं लभते नाकं कालस्य निश्चयं शृणु
हायनैकं तृणेनैव शरकांडेन तच्छतम्। अयुतं त्वन्यकाष्ठेन लक्षं खादिरदारुणा१०० 1.59.
कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः। तस्मात्सर्वप्रयत्नेन मंडपं कारयेद्बुधः