प्रासादं कुरुते यस्तु विष्णुलिंगस्य मानवः। त्रिकांडं पंचकाडं च सुशोभं सुघटान्वितम्
इतोऽधिकं तु यो दद्यान्मृन्मयं वा दृषन्मयम्। वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम्
प्रतिष्ठाकर्मसंपन्नं किङ्करादिभिरावृतम्। सुलिंगमिष्टदेवस्य विष्णोरेव विशेषतः
कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः। तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च
कृत्वा देवकुलं रम्यं यत्फलं लभते नरः। न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च। प्रासादे रत्नसंयुक्ते संपूर्णद्रव्यसंकुले
स वसेत्कामगे याने सर्वलोकमनोहरे। स्वर्गाच्च्युतो भवेद्राजा सार्वभौमो गुणैर्वशी
शिवलिंगे तु प्रासादं कारयित्वा स्वशक्तितः। यदुक्तं विष्णुलिंगे तु तज्ज्ञेयं शिववेश्मनि
भुंक्ते भोगं महाभागो मनःशर्मकरं परम्। रामाभिरामसंपूर्णं सर्वतः सुखदं दिवि५० 1.59.
उर्व्यामक्षयभोग्यानि नृपो वाथ महाधनी। हरस्य प्रतिमां यश्च कृत्वा देवगृहे नरः
सुलिंगां वा सुरूपां वा कल्पकोटिं वसेद्दिवि। स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा
देवीलिंगेषु सर्वेषु कृत्वा देवगृहं नरः। सुरत्वं प्राप्नुयाल्लोके देव्यास्सर्वसुखोद्भवे
भृशमच्युततामेति सुखमेति निरामयम्। रत्नसंसृष्टप्रासादे मणिकर्बुरभूतले
रामायुतप्रसंभोग्ये देवीसंसृष्टनिर्भये। नृत्यगीतपरे रम्ये सर्वेंद्रियमनोरमे
रत्नमर्द्दलतालाढ्ये सर्वदा स्त्रीजनेरिते। निर्मले सुखदे रम्ये रत्नानां सुशुभे गृहे
तथैव प्रतिमायाश्च देव्याः प्रासादमुत्तमम्। नियुतं कल्पकोटीनां स्वर्लोकमेति मानवः
स्वर्गाद्भ्रष्टो भवेद्भूपो देवीभक्तिपरायणः। एवं च जन्मसाहस्रं स्मर एव भवेद्भुवि
प्रासादं गाणपत्यं च देव्या वा प्रीतिमान्नरः। कृत्वा सुरगणानां च पूजितो दिवि जायते
तथैव राजतामेति भोग्यान्देवीपुरे तथा। अविघ्नं सर्वकार्येषु सदैव गणपो यथा
आज्ञानस्खलिता तस्य सुरासुरनरेषु च। तथैव सौरप्रासादे फलमेति नरोत्तमः
अरोगी सुप्रसन्नात्मा कामदेवसमप्रभः। वरदः सर्वलोकेषु यथा ब्रध्नस्तथा हि सः
सुरस्य प्रतिमायां च गृहं कृत्वा शिलामयम्। कल्पकोटिशतं भुक्त्वा स्वर्गमुर्वीश्वरो भवेत्
विष्ण्वादि सर्वदेवानामर्चनं यत्पृथक्पृथक्। प्रत्येकं संप्रवक्ष्यामि नराणां हित हेतवे
घृतप्रदीपं यो दद्यात्मासमेकमहर्निशम्। दिव्यं वर्षायुतं स्वर्गे पूजितो देवसत्तमैः
घृतस्नानं तथा लिंगे यः कुर्याद्भुवि मानवः। कल्पकोटिसहस्राणि मासैके लभते नरः
तिलतैलप्रदीपस्य तथान्यस्यार्द्धकं फलम्। मासैकं जलदानस्य फलेनेश्वरतां व्रजेत्
धूपदानेन गंधर्वं चंदने द्विगुणं भवेत्। मृगमदागरुसत्वस्य दाने बहुफलं भवेत्
मालापुष्पप्रदानेन नरः स्यात्त्रिदशेश्वरः। शीते तूलपटीं दत्वा सर्वदुःखात्प्रमुच्यते
जन्मजन्मसु लभ्येत उष्णे च शीतलां पटीम्। दत्वा च नैवसीदेत शक्त्या वस्त्रं ददाति यः
चतुर्हस्तप्रमाणं च वर्ष्मवेष्टं सुशोभनम्। पिधानं चरणानां च दत्वा स्वर्गान्न हीयते