एतस्मिन्नंतरे चैव मोचितः किंकरेण हि। तस्य जन्माभवत्कौ च दुर्विधे चातिवाणिके
आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मतः। भुक्त्वा क्लेशं महांतं च एकविंशतिहायनम्
तस्मिन्राष्ट्रे मृतो भूपः स्वकर्मपरिपीडितः। एतस्मिन्नंतरेऽमात्यैः समालोक्य सुमंत्रिभिः
अनेक परिमर्शैस्तु पृथिव्यां भ्रमणं कृतम्। तमावृण्वंश्च ते सद्यः सर्वेषां पुरतो दृढम्
ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरैः। स च राज्यं च संश्रित्य धर्मराजवरेण च
अकरोदालिकं कर्म शिलाबद्धं च मृण्मयम्। संक्रमं जलदुर्गे च तरणिं च तथापरे
वापीकूपतटाकानि प्रपाराम महीरुहं। कृतवान्विविधं यज्ञं दानपुण्यमतः परम्
स्मरंश्च पूर्वकर्म्माणि सर्वपापक्षयाय वै। कृतं बहुविधं धर्मं व्रतानि विविधानि च
सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्। पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः
सयानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवत्। स च तं प्रांजलिं प्राह भो धर्म कुरु तारणम्
चित्रगुप्तोऽब्रवीद्वाक्यं धर्मराजसमीपतः। कर्मणा मनसा पूतो विष्णुलोकं स गच्छतु
स तच्छ्रुत्वा पुनश्चाह तस्य विज्ञाय कारणम्। स्मितः प्रीत्या प्रसन्नात्मा गच्छ गच्छाच्युतालयम्
विमानं सुरलोकाच्च स्वागतं वर्णकर्बुरम्। समारुह्य गतः स्वर्गं पुनरावृत्तिदुर्लभम्
तस्मात्किष्कुप्रमाणं हि दत्तं येनालिकं पुरा। स तु राज्यान्वयं स्वर्गं महांतं चानुगच्छति
तथैव गोप्रचारं तु दत्वा स्वर्गान्न हीयते। या गतिर्गोप्रदस्यैव ध्रुवं तस्य भविष्यति
व्यामैकं गोप्रचारं तु मुक्तं येन सुधीमता। तस्य स्वर्गं भवेदिष्टं किमन्यैः पुरुभाषितैः
गोप्रचारं यथाशक्ति यो वै त्यजति हेतुना। दिनेदिने ब्रह्मभोज्यं पुण्यं तस्य शताधिकम्
तस्माद्गवां प्रचारं तु मुक्त्वा स्वर्गान्न हीयते। यश्छिनत्ति द्रुमं पुण्यं गोप्रचारं छिनत्यपि
तस्यैकविंशपुरुषाः पच्यंते रौरवेषु च। गोचारघ्नं ग्रामगोपः शक्तो ज्ञात्वा तु दण्डयेत्
छेत्तारं धर्मवृक्षाणां विशेषाद्गोप्रचारघम्। तस्य दंडे सुखं तस्य तस्मात्तं दंडयेत्तु सः
प्रासादं कुरुते यस्तु विष्णुलिंगस्य मानवः। त्रिकांडं पंचकाडं च सुशोभं सुघटान्वितम्
इतोऽधिकं तु यो दद्यान्मृन्मयं वा दृषन्मयम्। वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम्
प्रतिष्ठाकर्मसंपन्नं किङ्करादिभिरावृतम्। सुलिंगमिष्टदेवस्य विष्णोरेव विशेषतः
कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः। तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च
कृत्वा देवकुलं रम्यं यत्फलं लभते नरः। न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च। प्रासादे रत्नसंयुक्ते संपूर्णद्रव्यसंकुले
स वसेत्कामगे याने सर्वलोकमनोहरे। स्वर्गाच्च्युतो भवेद्राजा सार्वभौमो गुणैर्वशी
शिवलिंगे तु प्रासादं कारयित्वा स्वशक्तितः। यदुक्तं विष्णुलिंगे तु तज्ज्ञेयं शिववेश्मनि
भुंक्ते भोगं महाभागो मनःशर्मकरं परम्। रामाभिरामसंपूर्णं सर्वतः सुखदं दिवि५० 1.59.
उर्व्यामक्षयभोग्यानि नृपो वाथ महाधनी। हरस्य प्रतिमां यश्च कृत्वा देवगृहे नरः