कांतारे दुस्तरे पंके पुरुशंकुसमाकुलं। आलिं कृत्वा भवेत्पूतो देवत्वं याति मानवः
वितस्तौ तु लभेत्स्वर्गं दिव्यं वर्षशतं समम्। एवं संख्याविधानेन नरः स्वर्गान्न हीयते
कदाचित्पंकयोगाच्च स्वर्गाद्भुवि विजायते। तदा भट्टारकः श्रीमान्रोगशोकविवर्जितः
पंकादौ संक्रमांश्चैव कृत्वा स्वर्गान्न हीयते। सर्वपापं क्षयं तस्य संप्रयाति दिनेदिने
तथालिसंक्रमाणां च फलं तुल्यं प्रकीर्तितम्। धनप्राणाव्ययेनैव धीमता क्रियते सदा
श्रूयतां यत्पुरावृत्तमाख्यानं वृद्धसंमतं। कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः
कांतारे गोशिरः स्थाप्य क्रांत्वा स्तेयं गतो ह्यसौ। धनापहरणं कृत्वा गृहस्थस्य च तेन हि
गतः स्वमंदिरं तत्र जना गच्छंति वर्त्मनि। सर्वेषामेकपादस्य सुखं भवति निश्चितं
एकपादे ह्रदे दुर्गे तारकं गोशिरः परम्। चांद्रायणं च तत्तस्य कांतारे संस्थितं शिरः
ततश्चोरस्य निधने चित्रगुप्तप्रणीतके। धर्मस्य फलमात्रं तु एतस्य च न विद्यते
न दैवं पैतृकं कार्यं तीर्थं स्नानं द्विजार्चनं। दानं गुरुजने मानं ज्ञानं परहितं शुभम्
मनसा न कृतं तेन क्रियया च कथं पुनः। कृतं साहसिकं स्तेयं परदाराभिमर्शनम्
भूतमिथ्यापवादं च साधुनिंदा परं तथा। एवं शतसहस्रं तु तथा गोहरणं कृतम्
तत्राह धर्मराजस्तु कालानलसमप्रभः। नयतैनं फलं शूरा दुर्गतिं चापुनर्भवम्
एतस्मिन्नंतरेऽवोचच्चित्रगुप्तोनुकंपकः। अस्त्यस्य गोशिरः पुण्यं किचिन्नाथ क्षमाधुना
नृपो द्वादशवार्षिक्यं लभेत्पुण्योदयं क्षितौ। तथाह धर्मराजस्तं गच्छ मर्त्यं दुरात्मक
अकंटकं च राज्यं च भुंक्ष्व द्वादशवत्सरम्। यद्धृतं गोशिरो मार्गे मुक्तस्तस्यैव कारणात्
पुनरत्र समागम्य संगंता चापुनर्भवम्। ततः कृतांजलिर्देवमुवाच दुःखपीडितः
धर्मराजानुकंपा च मय्येवं पापकारिणि। कुरु नाथ त्वनाथे च जानामि प्रीतिपूर्वकम्
धर्मराजस्तु तं चाह बाढमेवमितो व्रज। स्मरिष्यसि स्ववृत्तांतं मत्प्रसादात्सुदुःखितः
एतस्मिन्नंतरे चैव मोचितः किंकरेण हि। तस्य जन्माभवत्कौ च दुर्विधे चातिवाणिके
आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मतः। भुक्त्वा क्लेशं महांतं च एकविंशतिहायनम्
तस्मिन्राष्ट्रे मृतो भूपः स्वकर्मपरिपीडितः। एतस्मिन्नंतरेऽमात्यैः समालोक्य सुमंत्रिभिः
अनेक परिमर्शैस्तु पृथिव्यां भ्रमणं कृतम्। तमावृण्वंश्च ते सद्यः सर्वेषां पुरतो दृढम्
ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरैः। स च राज्यं च संश्रित्य धर्मराजवरेण च
अकरोदालिकं कर्म शिलाबद्धं च मृण्मयम्। संक्रमं जलदुर्गे च तरणिं च तथापरे
वापीकूपतटाकानि प्रपाराम महीरुहं। कृतवान्विविधं यज्ञं दानपुण्यमतः परम्
स्मरंश्च पूर्वकर्म्माणि सर्वपापक्षयाय वै। कृतं बहुविधं धर्मं व्रतानि विविधानि च
सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्। पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः
सयानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवत्। स च तं प्रांजलिं प्राह भो धर्म कुरु तारणम्