धात्री हरीतकी चान्ये कटुतिक्ताम्लसंभवाः। सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा
प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः। सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः
शातकुंभमया वृक्षाः सदैव सर्वदायिनः। सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः
गीतनृत्यपराधीरास्तत्र तिष्ठंति वृक्षदाः। पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च
शुद्धोपलांतरचिता नद्यः पायसकर्द्दमाः। पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः
मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि। पुनरेव तदभ्यासात्खातमारामकं पुनः
यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान्। अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्
प्रपाया लक्षणं चात्र सर्वपापहरं परं। सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं
लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम्। निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मंडपम्
बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि। अगरुकादि सौगंध्यं जलं पूगं सचंद्रकम्
आसनं चैव तांबूलं दत्वा स्वर्गान्न हीयते। एवं वर्षत्रयेणैव पुष्करिण्याः फलं लभेत्
स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते। मासमेकं तु यो दद्यात्प्रपां ग्रीष्मेथ निर्जले५० 1.58.
कल्पैकं तु वसेत्स्वर्गे स्वर्गाद्भ्रष्टो महीयते। प्रपादास्तत्र तिष्ठंति यत्र पुष्करिणीप्रदाः
नोचेद्धर्मघटो देयः पुण्यः पापक्षयाय च। एष धर्मघटो ज्ञेयो ब्रह्मविष्णुशिवात्मकः
तवप्रसादात्सफलाः मम संतु मनोरथाः। स्वर्णमाषं चतुर्भागं दक्षिणार्थं घटस्य च
एवं वर्षत्रयेणैव प्रपादानफलं लभेत्। यः पठेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलम्
साक्षात्पापाद्भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः। जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम्
कल्पकोटिसहस्राणि सुरलोके स तिष्ठति
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुष्करिण्यादिधर्मकीर्तनंनामाष्टपंचाशत्तमो। ऽध्यायः
एकोनषष्ठित्तमोऽध्यायः। । व्यास उवाच- अतः परं प्रवक्ष्यामि कीर्त्तिधर्मं परं शुभम्। सेतुबंधफलं पुण्यं ब्रह्मणा भाषितं यथा
कांतारे दुस्तरे पंके पुरुशंकुसमाकुलं। आलिं कृत्वा भवेत्पूतो देवत्वं याति मानवः
वितस्तौ तु लभेत्स्वर्गं दिव्यं वर्षशतं समम्। एवं संख्याविधानेन नरः स्वर्गान्न हीयते
कदाचित्पंकयोगाच्च स्वर्गाद्भुवि विजायते। तदा भट्टारकः श्रीमान्रोगशोकविवर्जितः
पंकादौ संक्रमांश्चैव कृत्वा स्वर्गान्न हीयते। सर्वपापं क्षयं तस्य संप्रयाति दिनेदिने
तथालिसंक्रमाणां च फलं तुल्यं प्रकीर्तितम्। धनप्राणाव्ययेनैव धीमता क्रियते सदा
श्रूयतां यत्पुरावृत्तमाख्यानं वृद्धसंमतं। कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः
कांतारे गोशिरः स्थाप्य क्रांत्वा स्तेयं गतो ह्यसौ। धनापहरणं कृत्वा गृहस्थस्य च तेन हि
गतः स्वमंदिरं तत्र जना गच्छंति वर्त्मनि। सर्वेषामेकपादस्य सुखं भवति निश्चितं
एकपादे ह्रदे दुर्गे तारकं गोशिरः परम्। चांद्रायणं च तत्तस्य कांतारे संस्थितं शिरः
ततश्चोरस्य निधने चित्रगुप्तप्रणीतके। धर्मस्य फलमात्रं तु एतस्य च न विद्यते