यज्जप्तं च हुतं स्तोत्रं यन्त्रमंत्रादिकं च यत्। सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च
यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शंकरः। अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्
सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम्। दानस्य गोसहस्रस्य फलं चाश्वत्थवंदने
सप्तप्रदक्षिणेनैव गवामयुतजं फलम्। प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा
यत्किंचिद्दीयते तत्र फलमूलजलादिकम्। सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते
अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि। यथा पूज्यो द्विजो लोके यथा गावो यथामराः
तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः। रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा
ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात्। किंचिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः
कल्पैकं निरयं भुक्त्वा चांडालादौ प्रजायते। मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्
पुरुषास्तस्य तिष्ठंति रौरवे घोरदर्शने। अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्
तथैव चंपकेर्के च त्रयाणां रोपणेपि च। अष्टौ बिल्वस्य वृक्षाश्च न्यग्रोधाश्चैव सप्त च
निंबस्य दशवृक्षाश्च फलं चैषां समं भवेत्। एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः
एवं बुध्वा तु धर्मात्मा यः कुर्यात्कृत्रिमं वनम्। कल्पकोटिसहस्राणि कल्पकोटिशतानि च
नाकमेति स चूतस्य समारोप्य सहस्रकम्। ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरेपि वा
भुंक्ते भुक्त्वा पुनः कुर्यान्नृपो वाथ सदीश्वरः। स्वर्गं भोग्यं ततो राज्यं कल्याणं मंगलं शुभम्
आरोग्यं शौर्यसंपन्नमारामादेव जायते। फलानि यस्य खादंति जंतवोथ सहस्रशः
आश्रिता विहगाः कीटाः पतगाः शलभादयः। छायाश्रिताश्च ये सत्वास्तत्संख्याताः पृथग्जनाः
तस्य किंकरतां यांति शतशो देवतार्चिताः। ये च वृक्षा महासत्वास्सर्वे ते देवरूपिणः
तदर्चा पितृवत्कार्या शुश्रूषां जलपिंडकम्। मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि
सुरूपाः सुविनीताश्च सदापुण्यक्रिया शुभाः। एवं गणेशतां यांति जंतवश्चूतलग्नकाः
धात्री हरीतकी चान्ये कटुतिक्ताम्लसंभवाः। सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा
प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः। सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः
शातकुंभमया वृक्षाः सदैव सर्वदायिनः। सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः
गीतनृत्यपराधीरास्तत्र तिष्ठंति वृक्षदाः। पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च
शुद्धोपलांतरचिता नद्यः पायसकर्द्दमाः। पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः
मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि। पुनरेव तदभ्यासात्खातमारामकं पुनः
यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान्। अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्
प्रपाया लक्षणं चात्र सर्वपापहरं परं। सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं
लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम्। निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मंडपम्
बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि। अगरुकादि सौगंध्यं जलं पूगं सचंद्रकम्