गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः। न च दारिद्रतामेति न शोकं व्याधिसंचयम्
असंमानं महद्दुःखमुभयोर्नाधिगच्छति। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे खातादिकीर्तनंनाम सप्तपंचाशत्तमोऽध्यायः
अष्टपञ्चाशत्तमोऽध्यायः। व्यास उवाच- शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम्। तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्
यस्तु रोपयते तीरे पुण्यवृक्षान्समंततः। तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते
अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत्। ततो जलसमीपे तु लक्षकोटिगुणं भवेत्
स्वयं पुष्करिणी तीरे त्वनंतं फलमश्नुते। तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्
अश्वत्थरोपणं कृत्वा जलाशयसमीपतः। यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि
पतंति यानि पत्राणि जले पर्वणि पर्वणि। तानि पिंडसमानीह पितॄणामक्षयं ययुः
खादंति पतगास्तत्र फलानि कामतो ध्रुवम्। ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्
अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम्। तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि
उष्णेच्छायां प्रगृह्णंति गावो देवद्विजातयः। कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः
कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते। तस्मात्सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम्
एकं वृक्षं समारोप्य नरः स्वर्गान्न हीयते। तस्मादेव महावृक्षं रोपयध्वं द्विजोत्तमाः
जलानां निकटे रम्ये रसानां क्रयविक्रये। मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः
अश्वत्थादीन्समारोप्य स्वर्गं याति मनोरमम्। अर्चयित्वा तु यत्पुण्यं प्रवक्ष्यामि द्विजातयः
स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते। अस्नातो यः स्पृशेन्मर्त्यो लभते स्नानजं फलम्
दृष्ट्वा च नाशयेत्पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते। प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोस्तु ते
चलद्दलाय वृक्षाय सदा विष्णुस्थिताय च। बोधिसत्वाय योग्याय सदाश्वत्थ नमोस्तु ते
अश्वत्थाय तु हव्यं तु पयो नैवेद्यमेव च। पुष्पं धूपं दीपकं च दत्वा स्वर्गान्न हीयते
सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करम्। विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम्
यज्जप्तं च हुतं स्तोत्रं यन्त्रमंत्रादिकं च यत्। सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च
यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शंकरः। अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्
सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम्। दानस्य गोसहस्रस्य फलं चाश्वत्थवंदने
सप्तप्रदक्षिणेनैव गवामयुतजं फलम्। प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा
यत्किंचिद्दीयते तत्र फलमूलजलादिकम्। सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते
अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि। यथा पूज्यो द्विजो लोके यथा गावो यथामराः
तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः। रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा
ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात्। किंचिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः
कल्पैकं निरयं भुक्त्वा चांडालादौ प्रजायते। मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्
पुरुषास्तस्य तिष्ठंति रौरवे घोरदर्शने। अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्