विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना। दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे। शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः। फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे। स्नानपानादिकं कर्म सर्वे कुर्वंत्यभीष्टतः
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते। ततस्तस्याभवद्धास्यं तथैव च सभासदाम्
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह। सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः। दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु। उन्मज्जति च यत्काले प्रस्तरः संतरत्यपि
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा। बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा। पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा। दीनारायुतदानस्य पुष्करिण्या जलस्य तु
न समं तु दिनैकं तु जलस्य धर्मतो भृशम्। धनिनो मानसं दुःखं मोघार्थं च परेऽहनि
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि। ततः कोलाहलः शब्दो जनानां समुपस्थितः
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः। दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा
ततः खाताधिपेनैव शैलं दूरे निपातितम्। पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः। गोत्रमातृगणानां च नृपाणां सुहृदां तथा
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम्। तपस्विनामनाथानां ब्राह्मणानां विशेषतः
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते। तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः। य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः। ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः। न च दारिद्रतामेति न शोकं व्याधिसंचयम्
असंमानं महद्दुःखमुभयोर्नाधिगच्छति। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे खातादिकीर्तनंनाम सप्तपंचाशत्तमोऽध्यायः
अष्टपञ्चाशत्तमोऽध्यायः। व्यास उवाच- शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम्। तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्
यस्तु रोपयते तीरे पुण्यवृक्षान्समंततः। तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते
अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत्। ततो जलसमीपे तु लक्षकोटिगुणं भवेत्
स्वयं पुष्करिणी तीरे त्वनंतं फलमश्नुते। तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्
अश्वत्थरोपणं कृत्वा जलाशयसमीपतः। यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि
पतंति यानि पत्राणि जले पर्वणि पर्वणि। तानि पिंडसमानीह पितॄणामक्षयं ययुः
खादंति पतगास्तत्र फलानि कामतो ध्रुवम्। ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्
अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम्। तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि