तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत्। प्राणानां च विनान्नैश्च धारणन्नैव जायते
पितॄणां तर्पणं शौचं रूपं वै गंध्यनाशनम्। बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च। तेनैव सर्वकार्यं च पानीयं मेध्यमेव च
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम्। कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च
ततो विनिर्जले देशो(देशे?) यो ददाति जलाशयम्। वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः। लोकबंधुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते। क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम्। शूद्रादयोन्त्यजाश्चान्ये लभंते स्वर्गतिं मुहुः
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान्। परोपकारकं नित्यं कल्पं स्वर्गं तु हायने
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे। विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च। अनंतरं नृपो जातो धनी वागीश्वरो भवेत्
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते। विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः। जंतवस्तत्र ये संति यावंतो जीवनं ययुः
तत्संख्याका जनास्तस्य किंकराः पृष्टलग्नकाः। भवंति सततं गेहे पुरे जनपदेषु च
विहाय पितरं भोग्या धने क्षीणे यथा वनम्। पक्षिणस्सूकरश्चैव महिषी करिणी तथा
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः। दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम्। देवरूपं समास्थाय करिण्या लक्षमुच्यते
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च। पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः
अयुतधनव्ययेनैव प्राणेनैव बलेन च। सर्वसत्वोपकाराय शिवश्रद्धायुतेन च
कालेन कियता चापि क्षीणवित्तोऽभवत्किल। कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना। दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे। शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः। फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे। स्नानपानादिकं कर्म सर्वे कुर्वंत्यभीष्टतः
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते। ततस्तस्याभवद्धास्यं तथैव च सभासदाम्
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह। सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः। दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु। उन्मज्जति च यत्काले प्रस्तरः संतरत्यपि
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा। बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा। पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः