तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात्। तथा धात्रीफलस्यापि सदा स्वर समीहते
तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः। पुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः
तैरेव न कृतं यच्च तदनेन कृतं परम्। तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम्
अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम्। अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज
अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम्। आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम्
सायुज्यं च सखित्वं च पश्य भूदेवनांतरम्। ततो मूकादयः सर्वे स्वागता हरिमीश्वरम्
गंतुकामा दिवं पुण्यास्सदाराः सपरिच्छदाः। ये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः
नाना कीटादयो ये च तेषामनुययुः सुराः। व्यास उवाच- एतस्मिन्नंतरे देवाः सिद्धाश्च परमर्षयः
प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन्। देवदुंदुभयो नेदुर्विमानेषु वनेषु च
समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुः। तदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम्
उपदेशं च देवेश ब्रूहि मे मधुसूदन। श्रीभगवानुवाच- गच्छ स्वपितरौ तात शोकविक्लवमानसौ
समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात्। पितृमातृसमा देवा न तिष्ठंति सुरालये
याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदा। अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम्
याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरे। ततो देवगणास्सर्वे पंचभिस्तैर्मुदान्विताः
माधवं संस्तुवंतश्च गतास्ते हरिमंदिरम्। खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम्
रत्नाढ्यामिष्टसंपूर्णां कल्पवृक्षादिभिर्युताम्। शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम्
वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम्। गीतवाद्यादिसंपूर्णां सर्वदुर्गसमाकुलाम्
कोकिलालापबहुलां सिद्धगंधर्वसेविताम्। रूपाढ्यैः सुजनैः पूर्णां प्रयांतीमिव खे पुरीम्
ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम्। द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः
अचिरेणैव कालेन सकुटुंबो हरिं ययौ। पंचाख्यानमिदं पुण्यं मया ते समुदाहृतम्
यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिः। ब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन
गवां कोटिप्रदानेन यत्फलं लभते नरः। तत्फलं समवाप्नोति पंचाख्यानावगाहनात्
स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा। यत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात्
दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छति। लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानंनाम षट्पंचाशत्तमोऽध्यायः
सप्तपञ्चाशत्तमोऽध्यायः। द्विजा ऊचुः- कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च। वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः
व्यास उवाच- यस्य खाते वने गावस्तृप्यंति मासमेव च। यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा। यत्फलं जलदानेन सर्वमत्रास्यि(?) तच्छृणु
हायने हायने चैव कल्पं कल्पं विधीयते। दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि
मेघे वर्षति खाते च जायंते ये तु शीकराः। तावद्वर्षसहस्राणि दिवमश्नाति मानवः