प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम्। तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः
ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितः। शुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी५० 1.55.
स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम्। ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः
ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम्। अयं तीर्थवरः साक्षात्पितामहकृतो भुवि
सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किल। एवं कामप्रभावं च विद्धि दुर्वारदुःसहम्
कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतः। स जातश्चैव लौहित्यो विरंचेश्चैव चौरसः
शंतनो क्षेत्र संजातस्त्वमोघागर्भसंभवः। विरिञ्चिना जितः कामः शांतनोरप्यमत्सरात्
तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सः। एवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम्
शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति
सप्तपञ्चाशत्तमोऽध्यायः। । श्रीभगवानुवाच- पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीः। गंधर्वकिन्नराणां च मनुष्याणां च सर्वतः
मंत्रेण ताः समाकृष्य त्वतिदूरे विहायसि। तपोव्याजपरो देवस्तासु संगतमानसः
अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः। क्रीडां चकार सहसा मनोभव पराभवः
एतस्मिन्नंतरे गौर्याश्चित्तमुद्भ्रांततां गतम्। अपश्यद्ध्यानयोगेन क्रीडंतं जगदीश्वरम्
स्त्रीभिरंतर्गतं ज्ञात्वा रोषस्य वशगाभवत्। ततः क्षेमंकरी रूपा भूत्वा च प्रविवेश सा
व्योमैकांतेतिदूरे च कामदेव समप्रभम्। वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम्
स्त्रीभिः सह समालिग्य प्रक्रीडंतं मुहुर्मुहुः। चुंबंतं निर्भरं देवं हरं रागप्रपीडितम्
वृत्तं क्षेमंकरी दृष्ट्वा निपपाताग्रतस्तदा। तासां केशेषु चाकृष्य चकार चरणाहतिम्
त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितः। केशेष्वाकृष्य रोषात्ताः पातयामास भूतले
स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाः। उमाशापप्रदग्धांगा म्लेच्छानां वशमागताः
ताश्चांडालस्त्रियः ख्याता अधवा धवसंयुताः। अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः
अथोमा शतधा रूपं कृत्वेशं संगता तदा। एवं प्रभावं जानीहि कामस्य सततं द्विज
ततश्चिरात्तया सार्द्धं गतः कैलासमंदिरं। अतः क्षेमंकरीं दृष्ट्वा येभिनंदंति मानवाः
तेषां वित्तर्द्धि विभवा भवंतीह परत्र च। कुंकुमारक्तसर्वांगि कुंदेन्दुधवलानने
सर्वमंगलदे देवि क्षेमंकरि नमोस्तु ते। योगिनीसाम्यं तेनैव संमुखा विमुखापि वा
दृष्ट्वा तां नाभिवंदेद्यस्तस्य युद्धे पराजयः। राजगृहेषु विद्यायां नमस्काराज्जयो भवेत्
एवं कामस्य माहात्म्यं भवो मोहवशं गतः। अयं देवासुराणां च क्षमया प्रभुतां गतः
अस्यैव सदृशो लोके न भूतो न भविष्यति। रामामङ्कस्थितां रम्यां क्षमातल्पगतेन च
त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाः। एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः
यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते। एवमभ्यासधैर्येण दीर्घकाले सुखंगते
प्राक्संगमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा। द्वादशाब्दं प्रसंकल्प्य प्राग्भोगो मयि वेशितः