वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः । संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् । वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् । एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम्
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते । एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु । कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् । अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् । विशुद्धकुलचारित्र विष्णुपूजनतत्परान्
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश । तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि । दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् । साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम्
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः । न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ । पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् । प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम्
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम् । मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः
मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः । सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः । विधिर्मासोपवासस्य यथावत्परिकीर्तितः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया। मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो। पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः
सूत उवाच। इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः । शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः
कार्तिकेय उवाच। भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया । शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो
ईश्वर उवाच। साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि । तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् । महाशय महासेन नित्यं तिष्ठति संहितम्
दृष्टं प्रणमितं येन स्नापितं पूजितं तथा । यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत्
छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः । पीतं येन सदा विष्णोः शालग्रामशिलाजलम्
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः । शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत्
शालग्रामशिला बिंबं हत्वा कोटिविनाशनम् । स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम्
शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशः । सिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात्
नमस्कारं तु मनुजः शालग्रामशिलार्चने । भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात्
वैवस्वतभयं नास्ति तथा मरणजन्मनोः । यः करोति नरो नित्यं शालग्रामशिलार्चनम्
गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः । गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम्
कुरुते मानवो यस्तु कलौ भक्तिपरायणः । कल्पकोटिसहस्राणि रमते विष्णुसद्मनि
शालग्रामनमस्कारो भावेनापि नरैः कृतः । मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि